संस्कृत सारांश लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृत सारांश लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

Panchatantra katha sanskrit पंचतन्त्र कथा संस्कृत

 

 Panchatantra katha sanskrit hindi is a fascinating collection of stories that blend Sanskrit languages. The document titled Panchatantra katha sanskrit पंचतन्त्र कथा  संस्कृत provides an engaging read for those interested in ancient Indian folklore. Whether you prefer a formal, friendly, casual, or informal tone, these stories are sure to captivate readers with their timeless wisdom. Enjoy exploring the rich cultural heritage of Panchatantra katha in Sanskrit languages.

काकस्य उपायः

कश्चन महावृक्षः आसीत् । तत्र कश्चन काकः पत्न्या सह वसति स्म । तस्य एव वृक्षस्य कोटके कश्चन कृष्णसर्पः अपि वसति स्म । यदा काकी प्रसूता भवति तदा कृष्णसर्पः तस्याः शावकान् खादति स्म । एतेन काकः च महत् दुःखम् अनुभवतः स्म ।

अतः एकदा काकः स्वमित्रस्य श्रृङ्गालस्य समीपं गत्वा उक्तवान् भोः मित्रः !  सः कृष्णसर्पः कथञ्चित् मारणीयः । भवान् कमपि उपायं सूचयतु '' इति । श्रृङ्गालः एकम उपायं सूचितवान् । तत् श्रुत्वा काकः बहु सन्तुष्टः ।

तदनन्तरं काकः उड्डयनं कुर्वन् नगरम् आगतवान् । तत्र महाराजस्य प्रासादस्य सरोवरे अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन् । तासां वस्त्राणि आभरणानि च सरोवरस्य सोपानेषु स्थापितानि आसन् । काकः तत्र गतवान् । एकं सुवर्णहारं अनुसृतवन्तः ।

काकः अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं पातितवान् स्वयं दूरं गतवान् च राजभटाः तत्र आगतवन्तः । कोटरे ते हारं दृष्टवन्तः । तदा तत्र स्थितः कृष्णसर्पः कोपेन बहिः आगतवान् । राजभटाः दण्डप्रहारेण तं मारितवन्तः । हारं च नीतवन्तः । तदन्तरं काकः पत्न्या सह सुखेन जीवितवान् ।।

२. वञ्चकः बकः

कुत्रचित् अरण्यप्रदेशे एकः सरोवरः आसीत् । तत्र बहवः जलचराः आसन् । कश्चन बकः अपि तत्र बहुकालतः वसति स्म । कालान्तरे सः बकः वृद्धः अभवत् । वार्धक्यकारणतः सः मत्स्यान् ग्रहीतुम् अपि असमर्थः अभवत् । 'इदानीं कथम् आहारः सम्पादनीयः ?' इति चिन्तयन् सः एकम् उपायम् अन्विष्टवान् । सरोवरस्य तीरे स्थित्वा अश्रूणि मुञ्चन् सः रोदनम् आरब्धवान् ।

तदा कश्चन कर्कटकः तस्य समीपम् आगत्य पृष्टवान् - "माम ! किमर्थं भवान् रोदनं करोति ?” इति ।
तदा बकः उक्तवान् – “अद्य दैवज्ञमुखतः अहम् एकां दुर्वात श्रुतवान्- 'इतः परं द्वादशवर्षपर्यन्तम् अत्र अनावृष्टिः भविष्यति' इति । अस्माकं सरोवरे किञ्चिदेव जलम् अस्ति । शीघ्रमेव तदपि शुष्कं भविष्यति । तदा मम बान्धवाः भवन्तः सर्वे अपि मृताः भविष्यन्ति किल इति मम अतीव दुःखम्" इति ।

तत् श्रुत्वा कर्कटकः तां वार्ताम् अन्यजलचरान् निवेदितवान् । ते सर्वे अपि भीताः सन्तः बकस्य समीपम् आगतवन्तः । विनयेन तं पृष्टवन्तः - "माम ! अस्माकं प्राणरक्षणार्थं कोऽपि उपायः अस्ति किम् ?" इति ।

तदा बकः उक्तवान् – “इतः किञ्चिद्दूरे अन्यः कश्चन सरोवरः अस्ति । तत्र प्रभूतं जलम् अस्ति । तत् कदापि शुष्कं न भविष्यति । यदि भवन्तः मम पृष्ठम् आरोहन्ति तर्हि अहं भवतः सर्वान् तत्र नयामि" इति ।

तदा ते जलचराः महता उत्साहेन तं परितः स्थितवन्तः । बकः तान् पृष्ठे आरोप्य ततः प्रस्थितवान् । किञ्चिद्दूरे एका शिला आसीत् । तत्र तान् स्थापयित्वा सः सन्तोषेण खादितवान् । एवमेव सः बहून् जलचरान् खादितवान् ।
एकस्मिन् दिने कर्कटकः उक्तवान् - "माम ! अद्य मां नयतु' इति ।

'अस्तु, अद्य कर्कटकस्य मांसं खादामि' इति चिन्तयित्वा बकः तं पृष्ठे आरोपितवान्, वध्यशिलां प्रति गतवान् च ।
कर्कटकः दूरादेव शिलायां पतितानि अस्थीनि दृष्ट्रा बकस्य दुरालोचनां ज्ञातवान् । अतः सः स्वदन्तद्वयेन बकस्य कण्ठं दृढं गृहीतवान् ।
वेदनया रोदनं कुर्वन् सः वञ्चकः बकः मृतः ।

३. नष्टः पिष्टघटः

कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म । सः भिक्षाटनेन जीवनं करोति स्म । कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान् । तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकदृष्ट्या घटमेव पश्यति स्म ।

एकदा रात्रौ सः चिन्तितवान् - 'यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत् । तदा अहम् एतत् विक्रीय तेन धनेन अजद्वयं क्रेष्यामि । कालान्तरे तेन अजसमूहः एव भविष्यति । अनन्तरम् अजसमूहं विक्रीय धेनूः क्रेष्यामि । अनन्तरं ताः विक्रीय महिषीः, ताः विक्रीय अश्वान् च क्रेष्यामि । तान्  अपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि । बृहत् गृहं निर्मापयिष्यामि । तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति । अनन्तरं मम पुत्रः जनिष्यते । देवशर्मा इति तस्य नामकरणं करिष्यामि । यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि । तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति । तदा तं बालं ग्रहीतुं तस्य मातरम् आज्ञापयिष्यामि । यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि' इति ।

एवं चिन्तयन् सः पादप्रहारं कृतवान् एव । पिष्टेन पूर्णः घटः पतितः, भग्नः च ।
अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः । स एव पाण्डुरः शेते देवशर्मपिता यथा ।।

४. उपायेन शक्यं सर्वम्

कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म । सः अतीव शक्तिशाली । भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म । एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म ।

अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः "स्वामिन् ! विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः ? एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल ? अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः । भवान् तं मृगं खादतु । अन्यान् मृगान् न । पीडयतु" इति ।

तदा भासुरकः उक्तवान् – “तथैव अस्तु । परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति, तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव" इति

मृगाः तत् अङ्गीकृतवन्तः । ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः भासुरकस्य आहारत्वेन गच्छति स्म । भासुरकः तं खादति स्म । अन्ये मृगाः निर्भयम् अरण्ये सञ्चरन्ति स्म ।
कदाचित् जातिक्रमेण केनचित् शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम् । सः शशकः दुःखेन सिंहसमीपं प्रस्थितवान् । मार्गे एकः कूपः आसीत् । कूपस्य उपरि गमनसमये शशकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान् । तदा तस्य मनसि कश्चन उपायः स्फुरितः । 'अहं भासुरकम् एतस्मिन् कूपे पातयिष्यामि' इति चिन्तयन् सः विलम्बेन भासुरकस्य समीपं गतवान् ।

Panchatantra katha sanskrit पंचतन्त्र कथा हिन्दी संस्कृत

'अद्य मृगः समये न आगतः' इति भासुरकः अतीव कुपितः आसीत् । तदा शशकः मन्दं मन्दं गत्वा प्रणम्य तस्य पुरतः स्थितवान् । तं तर्जयन् भासुरकः उक्तवान् - "रे शशकाधम ! समये आगन्तव्यम् इति परिज्ञानं नास्ति वा भवतः ? भवान् विलम्बं कृतवान् किल ? अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वं मृगकुलमेव नाशयिष्यामि" इति ।

तदा शशकः विनयेन उक्तवान् - "स्वामिन् ! मया अपराधः न कृतः । भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः । परन्तु मार्गे अन्यः एकः सिंहः आसीत् । सः मां दृष्ट्वा पृष्टवान्
'भवान् कुत्र गच्छति ?' इति । 'भासुरकस्य आहारार्थं गच्छामि' इति अहम् उक्तवान् । तदा सः उक्तवान्- 'एतत् मम अरण्यम् अत्र सर्वे अपि मृगाः मम आज्ञां पालयेयुः । भासुरकः कुत्र अस्ति ? सः चोरसिंहः स्यात् । भवान् तम् अत्र आनयतु । आवयोः मध्ये युद्धं भवतु । युद्धे यः जयति सः एव भवन्तं खादतु' इति । तस्य सूचनानुसारम् अहम् अत्र आगतवान् । अतः एव विलम्बः जातः" इति ।

"एवम् !! तर्हि तं सिंहम् इदानीम् एव मारयामि । सः कुत्र अस्ति ? प्रदर्शयतु” इति भासुरकः उक्तवान् । शशकः तं कूपसमीपं नीतवान्, कूपं प्रदर्शितवान् च ।

भासुरकः तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान् । क्रोधेन गर्जनं कृतवान् । कूपतः इतोऽपि उच्चैः प्रतिध्वनिः आगतः । भासुरकः तं प्रतिबिम्बमेव स्वस्य प्रतिस्पर्धिनं मत्वा तं मारयितुं तस्य उपरि आक्रमण कृतवान् ।
कूपमध्ये पतितः सः जले निमग्नः मृतः च ।

५. नष्टा मन्दविसर्पिणी

कश्चन महाराजः आसीत् । तस्य शय्यायां मन्दविसर्पिणी नाम यूका वसति स्म । सा यूका महाराजस्य रक्तम् आस्वादयन्ती सुखेन जीवति स्म ।

एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्याम् आगतवान् । तं दृष्ट्वा मन्दविसर्पिणी उक्तवती "भोः मत्कुण ! भवान् किमर्थम् अत्र आगतवान् ? भवता अत्र न स्थातव्यम् । शीघ्रमेव इतः गच्छतु" इति ।

तदा अग्निमुखः उक्तवान् - "आर्ये ! अहं बहुजनानां रक्तम् अस्वादितवान् । परन्तु कुत्रापि मधुरं रक्तं न लब्धम् । भवती अनुमतिं ददाति चेत् एतस्य महाराजस्य मधुरं रक्तं पीत्वा मम जीवनं सार्थकं करोमि " इति ।
मन्दविसर्पिणी उक्तवती - "भोः अग्निमुख ! अहम् अनुमतिं ददामि । परन्तु महाराजः यदा निद्रावशः भवति, तदा अहं प्रथमं तस्य रक्तं पिबामि । तदनन्तरम् एव भवता रक्तं पातव्यम् । त्वरा न करणीया" इति ।

"अस्तु, अहं तथैव करोमि” इति अग्निमुखः अङ्गीकृतवान् ।

किञ्चित्कालानन्तरं महाराजः तत्र आगतवान्, शय्यायां सुप्तवान् च । महाराजस्य इतोऽपि निद्रा न आगता आसीत् । तदानीमेव जिह्वाचापलं निरोद्धम् असमर्थः अग्निमुखः तं दष्टवान् । महाराजः

झटिति शय्यातः उत्थितवान् । सेवकान् आज्ञापितवान् - “भोः सेवकाः ! शय्यायां किम् अस्ति इति भवन्तः शीघ्रमेव पश्यन्तु' इति ।
सर्वे अपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलितवन्तः । अत्रान्तरे मत्कुणः मञ्चस्य रन्ध्रं प्रविष्टवान् । सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणीं दृष्टवन्तः, मारितवन्तः च ।
एवं दुष्टाय मत्कुणाय आश्रयस्य दानेन मन्दविसर्पिणी स्वयं नष्टा । अतः प्राज्ञैः उच्यते - दुष्टेभ्यः आश्रयः न दातव्यः इति ।।

६. नीलभाण्डे पतितः शृगालः

कस्मिंश्चित् वने चण्डरवः नाम शृगालः वसति स्म । एकदा सः आहारम् अन्विष्यन् नगरम् आगतवान् । तं दृष्ट्रा अनेके शुनकाः भषन्तः समीपम् आगतवन्तः । चण्डरवः भीत्या धावितुम् उद्युक्तः । शुनकाः अपि तस्य अनुसरणं कृतवन्तः । चण्डरवः प्राणभयात् धावन् मार्गे दृष्टं रजकगृहं प्रविष्टवान् ।

तत्र नीलरसेन परिपूर्णम् एकं महाभाण्डम् आसीत् । चण्डरवः तस्मिन् भाण्डे पतितवान् । यदा सः भाण्डतः बहिः आगतः तदा तस्य शरीरं समग्रं नीलवर्णमयम् आसीत् । एषः एव सः शृगालः' इति अजानन्तः शुनकाः अन्यत्र कुत्रापि गतवन्तः । चण्डरवः इतस्ततः अटन् कथञ्चित् वनम् आगतवान् ।

तत्र अन्ये मृगाः एतं नीलवर्णयुतं शृगालं दृष्ट्रा भीताः पलायनं कुर्वन्ति स्म । तदा चण्डरवः तान् उक्तवान् - "भोः प्राणिनः ! भीतिः मास्तु । भवतां सर्वेषां रक्षणार्थम् एव चतुर्मुखः ब्रह्मा मां प्रेषितवान् अस्ति । अतः इतः परम् अहमेव भवतां राजा । मम आज्ञा भवद्भिः पालनीया" इति ।

सिंहः, गजः, व्याघ्रः इत्यादयः सर्वे अपि मृगाः तत् अङ्गी- कृतवन्तः । एवं चण्डरवः तस्य वनस्य राजा अभवत् ।
प्रतिदिनं सिंहादयः मृगान् मारयित्वा मांसम् आनीय चण्डरवस्य पुरतः स्थापयन्ति । चण्डरवः आनन्देन तत् खादति । एवमेव सः विनायासं सुखेन जीवति स्म ।

एकदा चण्डरवः सभायाम् उपविष्टवान् आसीत् । अन्ये प्राणिनः अपि पार्श्वे आसन् । तदा अकस्मात् दूरप्रदेशतः शृगालसमूहस्य कोलाहलः श्रुतः । स्वबान्धवानां ध्वनेः श्रवणात् चण्डरवस्य महान् आनन्दः जातः । तस्य शरीरं पुलकितम् अभवत् । सः उत्थाय आनन्दातिरेकेण नेत्रे निमील्य तारस्वरेण विरौतुम् आरब्धवान् । तदा सिंहादयः प्राणिनः 'एषः सामान्यः शृगालः एव, न तु ब्रह्मणा प्रेषितः' इति ज्ञातवन्तः । अतः एकेन एव प्रहारेण ते तं मारितवन्तः ।

७. त्रयः धूर्ताः

कस्मिंश्चित् ग्रामे मित्रशर्मा नाम ब्राह्मणः आसीत् । सः अतीव निर्धनः । कदाचित् सः ग्रामान्तरं गतवान् । तत्रत्यः भूस्वामी अतीव दयालुः आसीत् । सः ब्राह्मणाय दानरूपेण एकम् उत्तमम् अजं दत्तवान् । ब्राह्मणः तम् अजं स्वग्रामम् आनेतुम् उद्युक्तः । परन्तु अजः मार्गे इतस्ततः धावितुम् आरब्धवान् । अतः ब्राह्मणः तम् अजं स्कन्धे निधाय ग्रामाभिमुखं प्रस्थितः ।

तेन एव मार्गेण त्रयः धूर्ताः आगच्छन्ति स्म । ते ब्राह्मणम् अजं च दृष्ट्रा परस्परं चिन्तितवन्तः - 'कथञ्चित् एतं ब्राह्मणं वञ्चयित्वा अजम् अपहराम' इति । अनन्तरं तेषु एकः वेषपरिवर्तनं कृत्वा ब्राह्मणस्य पुरतः आगत्य उक्तवान् - “भोः ब्राह्मणोत्तम ! किम् एतत् अकार्यं करोति भवान् ? शुनकं वहति किल ? एतादृशं लोकविरुद्धं कार्यं न करणीयम् । जनाः यदि पश्यन्ति तर्हि हसन्ति” इति ।

ब्राह्मणः कोपेन उक्तवान् - "किं भवान् अन्धः ? अजं शुनकः इति वदति किल भवान् ?” इति ।

"कोपं न करोतु श्रीमन् ! भवान् यथा इच्छति तथैव करोतु । भवतः स्कन्धे स्थितः तु शुनकः एव, न तु अजः " इति उक्त्वा सः धूर्तः गतवान् ।

किञ्चित्कालानन्तरं द्वितीयः धूर्तः आगतवान् । सः ब्राह्मणंदृष्ट्रा आश्चर्यम् अभिनयन् पृष्टवान् - "किं भोः ब्राह्मणोत्तम ! मृतं वत्सं स्कन्धे वहति किल ? एतत् शास्त्रविरुद्धं न वा ? किमर्थं भवान् एवं करोति ?” इति ।
इदानीं ब्राह्मणस्य मनसि संशयः उत्पन्नः । तथापि सः उक्तवान् “किं भोः ! भवान् अपि अन्धः वा ? अजं मृतवत्सः इति वदति किल !" इति ।

धूर्तः - "क्षम्यताम् । अहं वस्तुस्थितिम् उक्तवान् । भवान् यथा इच्छति तथा करोतु' इति उक्त्वा ततः गतवान् ।

पुनः तृतीयः धूर्तः आगतवान् । सः पृष्टवान् "भोः ब्राह्मण ! किम् एतत् अकार्यं करोति भवान् ? गर्दभं स्कन्धे वहति किल ? भवतः बुद्धिः नास्ति किम् ?" इति ।

तदा ब्राह्मणः चिन्तितवान्- 'मम स्कन्धे अन्यः प्राणी एव अस्ति इति भाति । एकः शुनकः इति वदति । अन्यः मृतवत्सः इति वदति । एषः गर्दभः इति वदति । अथवा एषः प्राणी मायावी स्यात् । अतः विभिन्नरूपेण दृश्यते । अतः एषः मया न नेतव्यः' इति ।

एवं चिन्तयित्वा सः अजं परित्यज्य धावितवान् । ते त्रयः अपि धूर्ताः अजं गृहीत्वा मारयित्वा यथेष्टं खादितवन्तः ।

८. कर्कटकस्य उपायः

कस्मिंश्चित् वने कश्चन वटवृक्षः आसीत् । तस्मिन् वृक्षे बहवः बकाः वासं कुर्वन्ति स्म । वृक्षस्य कोटरे एकः कृष्णसर्पः अपि वासं करोति स्म ।

एकदा कृष्णसर्पः एकस्य बकस्य शावकान् खादितवान् । तदा सः बकः अत्यन्तं दुःखितः अभवत् । सः एकस्य सरोवरस्य तीरम् आगत्य नेत्राभ्याम् अश्रूणि मुञ्चन् स्थितवान् । तदा एकः कर्कटकः तं पृष्टवान् - "माम ! किमर्थं भवान् रोदनं करोति ?” इति ।

तदा बकः उक्तवान् - “कृष्णसर्पः मम शावकान् खादितवान् । अतः अहं दुःखितः अस्मि । तस्य दुष्टसर्पस्य मारणार्थं भवान् एकम् उपायं वदतु" इति ।

तदा कर्कटकः चिन्तितवान् - 'वस्तुतः एषः बकः अस्माकं जातिवैरी । अतः अहं कृष्णसर्पं मारयितुं तादृशम् उपायं वदामि, येन बकस्य अपि मरणं भवेत्' इति ।
अनन्तरं सः उक्तवान् "माम ! भवान् एतस्य नकुलस्य बिलद्वारतः कृष्णसर्पस्य कोटरपर्यन्तम् अपि मत्स्यखण्डान् प्रक्षिपतु । नकुलः तेन एव मार्गेण आगत्य कृष्णसर्पं मारयिष्यति” इति ।

बकः तथैव कृतवान् । नकुलः मत्स्यखण्डान् खादन् अग्रे अग्रे आगत्य कृष्णसर्पस्य कोटरं दृष्टवान् । कृष्णसर्पं मारितवान् अनन्तरं शनैः शनैः तस्मिन् वृक्षे स्थितान् सर्वान् बकान् अपि मारितवान् ।

९. व्यर्थः मूर्खोपदेशः

कश्चन तमालवृक्षः आसीत् । तस्य वृक्षस्य शाखायाम् एकः नीडः आसीत् । तत्र कश्चन चटकः पत्न्या सह वसति स्म । कदाचित् वर्षाकालः आगतः । बहिः सर्वत्र शीतलं वातावरणम् आसीत् । नीडे तु औष्ण्यम् आसीत् । अतः चटकः निरातङ्कः आसीत् ।

तदा कश्चन वानरः तत्र आगतवान् । वृष्ट्या तस्य शरीरं क्लिन्नम् आसीत् । शैत्येन सः कम्पते स्म । सः वानरः दन्तवीणां वादयन् वृक्षम् आरुह्य उपविष्टवान् ।
तं दृष्ट्वा चटका उक्तवती - "किं भोः ! भवतः हस्तपादसहितं सुदृढं शरीरम् अस्ति । तथापि एकं गृहं निर्माय तत्र वासं कर्तुं भवान् किं न शक्नोति ? किमर्थम् एवं शीतपीडाम् अनुभवति भवान् ?" इति ।

तत् श्रुत्वा वानरः उक्तवान् - "रे, अधमे ! किमर्थं मौनेन न ! तिष्ठति भवती ? मम विषये भवती किमर्थं चिन्तयति ?”इति ।
परन्तु चटका मौनेन न स्थितवती । पुनः तथैव उपदेशम् आरब्धवती । तदा वानरस्य महान् कोपः आगतः । सः ता शाखाम् आरुह्य चटकायाः नीडं शतधा खण्डशः कृतवान् । एवं मूर्खम् उद्दिश्य उपदेशेन चटकायाः नीडः एव नष्टः अभवत् 

१०. बलवान् कः ?

पुरातनकाले गङ्गातीरे कश्चन आश्रमः आसीत् । तत्र याज्ञवल्क्यः नाम महर्षिः वसति स्म । सः कदाचित् श्येनमुखात् पतिताम् एकां मूषिकां दृष्टवान् । करुणया सः तां मूषिकां आश्रमं नीतवान् । तत्र मन्त्रबलेन तां कन्यकां कृतवान् । याज्ञवल्क्यस्य अपत्यानि न आसन् । अतः तां कन्यकां स्वपुत्रीम् इव पालितवान् सः ।

कालान्तरे सा कन्यका विवाहयोग्या जाता । याज्ञवल्क्यः सूर्येण सह तस्याः विवाहं कारयितुम् इष्टवान् । अतः सः पुत्रीं पृष्टवान् - "भवती किं सूर्यं परिणेष्यति ?" इति ।

तदा सा उक्तवती - “अहं सूर्यस्य तापं सोढुं न शक्नोमि । अतः इतोऽपि उत्तमम् अन्यं वरं भवान् सूचयतु' इति ।

ऋषिः सूर्यम् एव पृष्टवान्- “भगवन् ! भवतः अपेक्षया उत्तमः वरः कः ?” इति ।

सूर्यः उक्तवान् - "मेघः माम् आच्छाद्य तिष्ठति । सः मम अपेक्षया बलवान्, योग्यः चापि” इति ।

ऋषिः मेघम् आहूतवान् । पुनः पुत्रीं पृष्टवान् - "भवती एतं परिणेष्यति किम् ?" इति ।

सा उक्तवती - "एतस्य वर्णः कृष्णः । अतः एषः मास्तु इतोऽपि उत्तमं वरं भवान् सूचयतु” इति ।

ऋषिः मेघं पृष्टवान् । मेघः उक्तवान् - “वायुः सहस्रधा मम

विभागं करोति । अतः सः एव मम अपेक्षया बलवान्” इति । ऋषिः वायुम् आहूतवान् । परन्तु पुत्री वायुम् अपि न अङ्गीकृतवती । "इतोऽपि बलवान् कः अस्ति ?” इति पृष्टवती ।

"अहं पर्वतं कम्पयितुं न शक्नोमि । अतः पर्वतः एव बलवान्” इति वायुः उक्तवान् । अनन्तरं ऋषिः पर्वतम् आहूतवान् ।  परन्तु पर्वतः उक्तवान् "यद्यपि अहं बलवान्, तथापि मूषिकः मम शरीरे सर्वत्र बिलं करोति । अतः मूषिकः एव मम अपेक्षया बलवान्" इति ।

ऋषिः मूषिकम् आहूतवान् । पुत्रीं पृष्टवान् - "भवती एवं परिणेष्यति किम् ?" इति ।
सा सन्तोषेण अङ्गीकृतवती । अनन्तरं ऋषिः तां मूषिकां कृत्वा मूषकेण सह तस्याः विवाहं कारितवान् ।

११. मूर्खम् उद्दिश्य उपदेशः

कश्चन पर्वतः आसीत् । तत्र बहवः वानराः वसन्ति स्म । कदाचित् हेमन्तसमयः सम्प्राप्तः । सर्वत्र वातावरणे अत्यन्तं शैत्यम् आसीत् । हिमपातः अपि भवति स्म । एतादृशं दुस्सहं शैत्यं सोढुम् अशक्ताः वानराः कम्पन्ते स्म ।

एकदा कश्चित् वानरः कुतश्चित् कानिचित् गुञ्जफलानि आनीतवान् । तानि गुञ्जाफलानि अग्निकणसदृशानि आसन् । अतः वानराः चिन्तितवन्तः - 'एतान् 'एतान् अग्निकणान् मध्ये स्थापयित्वा, परितः शुष्काणि पर्णानि स्थापयित्वा फूत्कारं कुर्मः

चेत् अग्निः उत्पद्यते । तेन वयं शैत्यपीडां दूरीकर्तुं शक्नुमः इति । एवं चिन्तयित्वा ते गुञ्जफलानि मध्ये स्थापयित्वा परितः पर्णानि स्थापितवन्तः । फूत्कारं कर्तुम् आरब्धवन्तः । परन्तु महता प्रयत्नेन अपि अग्निः न उत्पन्नः ।
सूचीमुखः नाम पक्षी एतत् सर्वं पश्यन् आसीत् । वानराणां वृथाप्रयासं दृष्ट्वा सः उक्तवान्- “भोः मूर्खाः । एते अग्निकणाः न । अपि तु एतानि गुञ्जाफलानि । भवन्तः किमर्थं व्यर्थश्रमम् अनुभवन्ति ? कुत्रापि गुहायां निर्वातप्रदेशः अस्ति वा इति अन्विष्यन्तु । तत्र गत्वा तिष्ठन्तु" इति ।।

तेषु एकः वृद्धः वानरः आसीत् । सः सूचीमुखम् उक्तवान् - "अरे मूर्ख ! किं करणीयं, किं न करणीयम् इति वयं सम्यक् जानीमः । भवतः उपदेशः न अपेक्षितः । मौनेन इतः गच्छतु' इति ।

परन्तु सूचीमुखः तस्य वाक्यम् अनादृत्य पुनः "किमर्थं वृथा श्रमम् अनुभवन्ति भवन्तः ?” इति वक्तुम् आरब्धवान् । सूचीमुखस्य उपदेशेन कुपितः कश्चन वानरः तं पक्षयोः गृहीत्वा शिलातले घट्टितवान् । तेन घट्टनेन सूचीमुखः मृतः ।
अतः मूर्खम् उद्दिश्य उपदेशः अस्माकं विनाशाय एव भवति ।

१२. जातिस्वभावः

कस्मिंश्चित् वने कश्चन सिंहः पल्या सह वसति स्म । कालान्तरे तस्य पत्नी पुत्रद्वयं प्रसूतवती । सिंहः प्रतिदिनं मृगान् मारयित्वा मांसम् आनीय पत्नीपुत्रेभ्यः ददाति स्म ।

एकदा सिंहः मृगान्वेषणार्थं वने अटति स्म । तत्र सः एकं शृगालशिशुं दृष्टवान् । करुणया तं शिशुम् आनीय सः पन्याः हस्ते दत्तवान् । सा अपि तं शिशुं मारयितुम् न इष्टवती । अतः तं वात्सल्येन स्वपुत्रम् इव पालितवती । स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा शृगालशिशवे अपि ददाति स्म सा । अतः ते त्रयः अपि परस्परं भेदं न जानन्ति स्म । एवमेव ते प्रवृद्धाः ।

कस्मिंश्चित् वने कश्चन सिंहः पल्या सह वसति स्म । कालान्तरे तस्य पत्नी पुत्रद्वयं प्रसूतवती । सिंहः प्रतिदिनं मृगान् मारयित्वा मांसम् आनीय पत्नीपुत्रेभ्यः ददाति स्म ।

एकदा सिंहः मृगान्वेषणार्थं वने अटति स्म । तत्र सः एकं शृगालशिशुं दृष्टवान् । करुणया तं शिशुम् आनीय सः पन्याः हस्ते दत्तवान् । सा अपि तं शिशुं मारयितुम् न इष्टवती । अतः तं वात्सल्येन स्वपुत्रम् इव पालितवती । स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा शृगालशिशवे अपि ददाति स्म सा । अतः ते त्रयः अपि परस्परं भेदं न जानन्ति स्म । एवमेव ते प्रवृद्धाः ।

कदाचित् ते त्रयः अपि वने अटन्ति स्म । तत्र एकः गजः आगतः । गजं दृष्ट्रा सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ । तदा शृगालपुत्रः - "भोः, एषः गजः अस्माकं कुलस्य शत्रुः । अतः तस्य पुरतः न गन्तव्यम्” इति उक्त्वा ततः गृहं प्रति पलायनं कृतवान् । तं दृष्ट्रा निरुत्साहेन सिंहपुत्रौ अपि गृहम् आगतवन्तौ । अनन्तरं तौ - “भ्राता गजं दृष्ट्रा भीत्या पलायनं कृतवान्" इति पितरम् उक्तवन्तौ ।

सिंहः तत् श्रुत्वा कुपितः । सः “भवद्भ्यां सिंहकुलस्य एव अपमाननं कृतम्' इति पुत्रौ निन्दितवान् ।

कदाचित् ते त्रयः अपि वने अटन्ति स्म । तत्र एकः गजः आगतः । गजं दृष्ट्रा सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ । तदा शृगालपुत्रः - "भोः, एषः गजः अस्माकं कुलस्य शत्रुः । अतः तस्य पुरतः न गन्तव्यम्” इति उक्त्वा ततः गृहं प्रति पलायनं कृतवान् । तं दृष्ट्रा निरुत्साहेन सिंहपुत्रौ अपि गृहम् आगतवन्तौ । अनन्तरं तौ - “भ्राता गजं दृष्ट्रा भीत्या पलायनं कृतवान्" इति पितरम् उक्तवन्तौ ।

सिंहः तत् श्रुत्वा कुपितः । सः “भवद्भ्यां सिंहकुलस्य एव अपमाननं कृतम्' इति पुत्रौ निन्दितवान् ।

शिशुपालवधम् 1 से 4 तक सारांश

 


प्रथमः सर्गः

महाकविना माघेन विरचिते शिशुपालवधमहाकाव्ये महाभारते वर्णितस्य शिशुपालवधाख्यानस्य चित्रणं वर्तते । भुवः पापभारमपहर्तुं वसुदेवगृहे श्रीकृष्णरूपेणावतीर्णः भगवान् हरिः कदाचिदाकाशादवतरन्तं नारदं ददर्श । पतत्तेजःपुञ्जभूतो नारदो जनैः पूर्वं विभिन्नरूपैर्विकल्पितः पश्चान्त्रिकटमायांतो नारदत्वेन विज्ञातः। नीलमेघानधः गौरः सः गजेन्द्रचर्मावृत भूतिसितशिव इव राजते स्म । हिमालयोद्भूतलतामिव जटाः, मौञ्जीं मेखलां, कृष्णवर्णं मृगचर्म, शुभं यज्ञोपवीतं स्फटिकाक्षमालां, महतीं वीणाञ्च दधानः नारदोऽनुयायीर्देवान् निवर्त्य सर्वसम्पत्सम्पन्नं श्रीकृष्णसदनमवाप्तवान् । श्रीकृष्णः अभ्युत्त्थानादिभिः स्वागतं विधाय, अर्ध्यादिभिः सम्पूज्य, समुचितासने प्रतिष्ठाप्य नारदमागमनकारणं पप्रच्छ । श्रीकृष्णकृतार्चनया प्रशंसावचनैश्च मुदितमना नारदस्तस्य पुरुषोत्तमत्वं, जाद्वन्द्यत्वं सतत- सद्रक्षणपरायणताञ्च प्रतिपाद्य निजागमनकारणं जगाद-

हे विश्वम्भर ! त्वं भुवनद्विषां संहारायैव धृतावतारोऽसीति जानन्नपि इदानीमहं भुवि पापिजनसंहारायेन्द्रसंदेशं भवन्तं निवेदयितुमागतोऽस्मि, तच्छ्रयताम्-- पुराऽभूदेको दैत्यराज हिरण्यकशिपुरितिनाम्नः कुख्यातो त्रिलोकभयंकरः। येन देवाः परास्ताः, देवादियज्ञभागाश्च अपहृताः। तथाविधस्याप्यसुरराजस्य वधं भवता नृसिंहावतारमवलम्ब्य कृतमिति सुवितदतमेव। असौ एव असुरराट् अपरस्मिन् जन्मनि 'रावण' इति नाम्ना कुविदितो जातः। यम-वरुण-कुबेर, चन्द्र-सूर्य-पवनाः दिग्गजाः षड्- ऋतवश्च तद्वशवर्तिनः सञ्जाताः तमुपासन्ते स्म । किञ्च, अनेन भवदीया धर्मभार्या सीताप्यपहृता । अतो रामारूपे विद्यमानो भवान् तस्यागंम्यां लङ्कामासाद्य तत्रैव तद्बधमकरोदिति स्मरणीयेयं वार्ता। असौ एव रावणो जन्मान्तरे इदानीं शिशुपालरूपे विराजमानो जगति विद्यते। इदानीमस्यात्याचारेण त्रिलोकी खिद्यते। अतो भवान् तमसुरमानवं विनाश्य इन्द्रादिदेवदुःखानि परिहरतु इति देवराजस्येन्द्रस्य निवेदनमस्ति ।

इत्थं कथयित्वा गते नारदे सर्वं खलु वृतान्तजातं स्मारं स्मारं श्रीकृष्णः शिशुपालम्प्रति कोपात् भ्रूभङ्गीं चकार।

द्वितीयः सर्गः

इन्द्रसन्देशमादाय श्रीकृष्णसमीपमागतः नारदः विस्तरेण शिशुपालवधस्य दुश्चरितानि वर्णयित्वा श्रीकृष्णञ्च तं हन्तुं निवेद्याम्बरमुत्पतितः। अम्बरमुत्पतिते नारदे भगवान् श्रीकृष्णः क्रुद्धः सन् सचिवेन पितृव्येनोद्धवेन बलरामेण च सह मन्त्रयितुं सभाभवनमाससाद। तत्र सः कथयितुमारभत- वयमिदानीं महाराजेन युधिष्ठिरेण राजसूययज्ञे सम्मिलितुं निमन्त्रिताः स्मः। तथा च इन्द्रेण शिशुपालवधाय सन्दिष्टाः स्मः। अतः इदानीमस्माभिः किम्प्रवर्तितव्यम्- राजसूययज्ञसम्पादनमुताहो शिशुपालहननमिति । इत्थं युगपदेवोपस्थिते द्वे कार्ये उपस्थाप्य भगवान् श्रीकृष्णः पुनरवदत् - स्वकीयैः भ्रातृभिः भीमादिभिः सहान्वितो युधिष्ठिरः स्वीयं यज्ञं सम्पादयितुं नितरां नदीष्णः । अतो नास्ति तत्रास्माकं गमनमत्यावश्यकंम्। अन्यच्च शत्रोः शिशुपालस्योपेक्षापि नोचिता, अतः इदानीं शिशुपाले आक्रमणं युक्तमिति । अस्मिन् विषये भवतो: सम्मतिरसमम्मतिर्वा इति मदीया जिज्ञासा।

ततः परं मदघूर्णितरक्तनेत्रं रुट्स्फुरिताधरोष्ठं बलरामं वक्तुमुद्यतं दृष्ट्वा वयः श्रेष्ठोऽपि उद्धवस्तूष्णीं बभूव । बलरामश्च विविधदृष्टान्तैरुपायैश्च श्रीकृष्णवचनं समर्थयन् शीघ्रातिशीघ्रमेव शिशुपालम्प्रत्याक्रमणाय स्वसम्मत्तिमदात् ।

ततः श्रीकृष्णेन प्रचोदितः उद्धवो बलभद्रोक्तं प्रत्येकं वचनं सुमधुरया गिरा प्रशंसन् युक्तियुक्ततर्केश्च निरस्य धर्मराजयुधिष्ठिरस्य राजसूययज्ञे सम्मिलितुम - कथयत्। सः श्रीकृष्णप्रतिज्ञामस्मारयत् यत् भवता श्रीकृष्णेन ते

पितृस्वसा सात्वती उक्ता यत्- शिशुपालकृतान् शतमपरधान् मर्शयिष्यामि। अतो स्वगुप्तचरनियुक्तिद्वारा

शिशुपालपक्षीयेषु अधिपेषु भेदोत्पादनं विधेयम्, स्वपक्षीया अधिपाश्च युद्धाय सज्जीभूय धर्मराजयज्ञे सम्मेलनाय संसूचनीयाः । यतः यज्ञे यदि भवत्स्नेहेन पाण्डवा भवन्तं प्रति समादरं दर्शयिष्यन्ति, तदा शिशुपालो मात्सर्यभरितो भविष्यति। अतस्तत्रैव स भवन्तं निन्दिष्यति। तेन तत्पक्षीयाः केचिदधिपा अपि तस्मात् पृथग् भविष्यन्ति। एवं कृते सति भवता पितृस्वस्त्रे सात्वत्यै 'शिशुपालस्यशतमराद्धान् सहिष्ये' इति प्रदत्ता प्रतिज्ञा पूरयिष्यते, अन्यच्च अन्येऽपि राजानः तद्व्यवहारं दृष्ट्वा क्षुब्धाः सन्तः तस्मात् पृथग्भविष्यन्ति । अतस्तत्र शिशुपालपराभवो तद्वधश्च सुसरलः भविष्यति ।

इत्थं राजनयनिपुणस्य स्वपितृव्यस्योद्धवस्य युक्तियुक्तं वचनमनुसृत्यैव समोदं कार्यानुष्ठानमवधार्य भगवान् श्रीकृष्णः परिषदं व्यसर्जयत्।

तृतीयः सर्गः

मन्त्रिणः पितृव्यस्योद्धवस्य युक्तियुक्तं राजनयभरितं वचनं श्रुत्वा श्रीकृष्णः युद्धविचारं परित्यज्य युधिष्ठिरयंज्ञे सम्मिलितुमिन्द्रप्रस्थम्प्रति प्रस्थितः । सः श्वेतच्छत्रं, मृणालसूत्रविशदं चलच्चामरद्वयं, विविधवर्णमणिमण्डितं मुकुटं, पद्मरागरत्नजटितं हेमकुण्डलयुगं, केयूरकङ्कणमुक्ताहारकौस्तुभमाणिमेखलाप्रभृतीन्य- लङ्काराणि, पीताम्बरञ्च धारयित्वा सुदर्शनचक्रं, कौमोदकीं गदां, नन्दकं खड्गं, शाङ्ग कोदण्डं, पाञ्चजन्यं शंख च दधार। ततः सः अप्रतिहतगतिं स्यन्दनमारुरोह । तास्मिन् स्यन्दने गरुडचिह्नाङ्किताः पताका उद्धयन्ते स्म । तमनुगच्छन्त्यः चतुरङ्गिण्यः यादवसेना: शोभन्ते स्म । प्रस्थानकालिकीं श्रीकृष्णसुषमां दर्शयितुं उत्कण्ठिताः जनसम्मर्दाः प्रतिरथ्यमाराद् जग्मुः। जनसम्मर्दकारणात् मन्थरगत्या गच्छन् स्यन्दनमारूढः श्रीकृष्णो न ज्ञातवान् यत् कदाऽसौ द्वारकातः बहिरागच्छत् ।

द्वारकावर्णनम् - युधिष्ठिरस्य यज्ञे सम्मिलितुं सुसाज्जितया सेनया सहेन्द्रप्रस्थं प्रति प्रस्थितः द्वारकातः बहिरागत्य श्रीकृष्णो

द्वारकासुषमामपश्यत् । इयं स्वर्णमयी द्वारकापुरी राजधानी मध्येसमुद्रं सुवर्णप्रकारदीप्त्या ककुभः पीताभाः कुर्वाणा जलं विदार्य वडवानलशिखेव विराजते। अत्रापणेषु पुञ्जीकृतानि महार्ष्याणि रत्नान्यासन्। द्वारकायाः अट्टाः

प्रकारादयश्चात्युच्चाः, अत्यन्तं श्लक्ष्णाश्चासन्। तासु अट्टासु प्रकारासु चालेखितानि चित्राणि सजीवानि प्रतीयन्ते स्म । अप्सरोवत् तत्रत्याः सुन्दयों युवतयो मानरहिता सन्त्यः सर्वदैव कामोत्कण्ठिताः कामुकामोदं जनयन्ति स्म। अत्रत्याः सुन्दर्यः लक्ष्मीवत् लावण्यवत्यो ब्रह्मणा निर्मिता अन्योन्यं सौन्दर्यसंघर्ष कुर्वन्ति स्म। एतादृशीम् अमरावत्युपमां द्वारकापुरीमवलोयन् श्रीककृष्णः यदा अस्याः बहिरागच्छत् तदेयं पुरी उदासीना रमणीव सञ्जाता।

समुद्रवर्णनम् --युधिष्ठिरयज्ञे भागं गृहीत्तुं प्रस्थितः श्रीकृष्णः द्वारकायाः शोभां दृष्ट्वा विमुग्धी बभूव। ततः परं श्रीकृष्णः सरिद्भार्याधरपानदक्षं समुद्रमपश्यत्। भगवान् श्रीकृष्णः आलिङ्गितपृथिवीतलं तारस्वरेण क्रन्दितारं चञ्चलबाहुसदृशमहत्कल्लोलं फेनायमानं सरिताम्पतिमपस्माररोगिणमिवापश्यत् । सागरतीरस्य मेचका मेघाः अतीव मनोज्ञा आसन्। कल्लोलमालिभिः सागरप्रतीरे मुक्ताः विकीर्णा विराजन्ते स्म । समुद्रतटे प्रचलितेन शीतलमन्दसुगन्धेन पवनेन श्रीकृष्णस्य तत्सैन्यस्य च श्रमोऽपनीतः । समुद्रतीरे लवलीलतानां बहूनि

निकुञ्जान्यासन्। पूगीफलानां नारिकेलफलानाञ्चारण्यानि आसन्। श्रीकृष्णसैनिकाः एतादृशे सागरतीरे लवङ्गपुष्पाणि कर्णाभूषणानि विदधुः। एते सैनिकाः सरसपूगीफलानि भक्षयामासुः नारिकेलान्तः जलञ्च पीत्वा ते विविधकृत्यानि कुर्वाणाः समुद्रात् बहुदूरं निष्कान्ताः।

चतुर्थः सर्गः 

(रैवतकवर्णनम्)

धर्मराजयुधिष्ठिरयज्ञे सम्मिलितुमिन्द्रप्रस्थम्प्रति ससैन्यं प्रस्थितो भगवान् मार्गे रैवतकाचलमश्यत्। महाकविना माघे रैवतकवर्णनमेव चतुर्थसगें उपस्थापितम्। मेघाच्छन्नसानुरयं रैवतकः मैनाक इव सूर्यमार्ग निरोद्धं प्रवृत्त आसीत् । सहस्रसंख्याकैः शिखरैः आकाशमभिव्याप्य प्रत्यन्तपर्वतैश्च पृथिवीमाक्रम्यायं विद्यमान आसीत् । सूर्यचन्द्रौ अस्य नेत्रे इव प्रतीयेते स्म । विविधवृक्षलताभिराच्छादितोऽयमासीत् अनवरतं मेघवृष्टिभिराप्लावितेऽस्मिन् पर्वते भोगिनां विषं न बाधते स्म। अत्र सूर्यकान्तमणयः अग्निज्वालां वर्षन्ति स्म। स्वमनोहरसुषमाभिः श्रीकृष्णं बहुशोऽयं पर्वतः आकर्षयति स्म। इति श्रीकृष्णं रैवतकशोभाम्प्रति उत्कण्ठितं दृष्ट्वा तत्सारथिः दारुकस्तमवदत् रैवतकशोभाम्। 

सः अकथयत् - सूयोंदये चन्द्रास्ते च सति पर्वतोऽयं रैवतको विलम्बमान- घण्टाद्वयावेष्टितो गजराज इव शोभां बिभर्ति । अभितः कनकभूमी: धारयन्नयं रैवतकाचलः निजोच्चेभ्यः शिखरेभ्यो निर्झरनिकराणाम्प्रस्त्रवद्भिः जलविन्दुभिः स्वगींयदेवाङ्गनानां कामपीडितानां कामसन्तापं शमयति। जले एकत्र स्फटिकस्यापरत्र च इन्द्रनीलमणेः भाभिः गङ्गायमुनयोः सङ्गमोपमां शोभां दधानोऽयं पर्वतः स्वच्छजलपूरपूरितान् जलाशयानपि धारयति। एकत्र स्वर्णिमभित्याः परत्र च राजतभित्याऽन्वितोऽयं रैवतको भस्मच्छुरितस्योद्वह्निनयनस्य त्रम्बकस्योपमां बिभर्ति । अभितः विकसितचम्पकप्रसूनाच्छादितेन रैवतकपर्वतेन पीतवर्णाभिः स्वर्णतटीभिः सुमेरुवच्छोममानेनानेन भारतवर्षमिदमिलावृत्तमिव विराजते। रैवतकेऽस्मिन् एकत्र कम्बलमृगाश्चरन्ति, अन्यत्र प्रियाभिरन्विताः सिद्धा विरहन्ति, अपरत्र नक्तमोषधयः प्रकाशन्ते। प्रस्फुटितं कदम्बं कम्पयन् शीतलमन्दसुगन्धो वायुर्वाति।

पर्वतेऽस्मिन् सन्ति विविधा निधयो रत्नानाम्। किन्नराणामयमचलो विहारस्थलमस्ति। अस्मिन् चमराः मृगाः विहरन्ति। विशालकाया आरण्यका गजाश्च विचरन्ति। एतदतिरिक्तमप्यत्र मैत्र्यादिचतुर्वृतिज्ञाः

अविद्यादिपञ्चक्लेशान् परित्यज्य समाधिमन्तो बहवो यतयो निवसन्ति। इत्थमयं रैवतकः न केवला भोगभूमिरपितु मोक्षभूमिरपि। अत्र सर्वदैव षड्ऋतवो युगपदेव विराजन्ते । अतः शीतोष्णजलवायुमनुभवन्तोऽत्र देवानां सिद्धानां किन्नराणां कामिनां निकराः एनमुपासन्ते। इत्थमयं पर्वतः अत्युन्नतशिखराक्रान्तमेधैः भवतः स्वागताय सरभसमभ्युत्तिष्ठतीव प्रतीयते।

हमसे जुड़े

Translate

Featured Post