किरातार्जुनीयम् का सामान्य परिचय
किरातार्जुनीयम् महाकवि भारवि द्वारा छठी शताब्दी ई. में रचित महाकाव्य है जिसे संस्कृत साहित्य में महाकाव्यों तथा 'बृहत्रयी' में स्थान प्राप्त है। महाभारत में वर्णित किरातवेशी शिव के साथ अर्जुन के युद्ध की लघुकथा को आधार बनाकर कवि ने राजनीति, धर्मनीति, कूटनीति, समाजनीति, युद्धनीति, जनजीवन आदि का मनोरम वर्णन किया है। यह काव्य विभिन्न रसों से ओतप्रोत रचना है किन्तु वीर रस प्रधान है। संस्कृत के छः प्रसिद्ध महाकाव्य हैं- इनमें से बृहत्रयी में- किरातार्जुनीयम् (भारवि), शिशुपालवधम् (माघ) और नैषधीयचरितम् (श्रीहर्ष) आते हैं तथा लघुत्रयी में- कुमारसम्भवम्, रघुवंशम् और मेघदूतम् (तीनों कालिदास द्वारा रचित) महाकाव्य आते हैं।
किरातार्जुनीयम् भारवि की एकमात्र उपलब्ध कृति है, जिसने एक सांगोपांग महाकाव्य का मार्ग प्रशस्त किया। माघ-जैसे कवियों ने उसी का अनुगमन करते हुए संस्कृत साहित्य भण्डार को इस विधा से समृद्ध किया और इसे नई ऊँचाई प्रदान की । कालिदास की लघुत्रयी और अश्वघोष के बुद्धचरितम् में महाकाव्य की जिस धारा का दर्शन होता है, अपने विशिष्ट गुणों के होते हुए भी उसमें वह विशदता और समग्रता नहीं है, जिसका सूत्रपात भारवि ने किया। संस्कृत में किरातार्जुनीयम् की कम से कम 37 टीकाएँ हुई हैं, जिनमें मल्लिनाथ की टीका घंटापथ सर्वश्रेष्ठ है। सन 1912 में कार्ल कैप्पलर ने हारवर्ड ओरियेंटल सीरीज के अंतर्गत किरातार्जुनीयम् का जर्मन भाषा में अनुवाद किया। अंग्रेजी में भी इसके भिन्न-भिन्न भागों के छः से अधिक अनुवाद हो चुके हैं ।
[ लेखक - भारवि ] [ विधा - महाकाव्य ] [ सर्ग - 18 ] [ श्लोक - 1040 ] [उपजीव्य - वनपर्व ( महाभारत ) ]
[ नायक/नायिका - अर्जुन / द्रोपदी ] [प्रतिनायक - किरातवेशधारी शिव ] [ मुख्य रस - वीर प्रधान रस ]
[ रीति - पाञ्चाली ] [ टीका - घण्टापथ ( मल्लिनाथ ) ]
किरातार्जुनीयम् प्रथम सर्ग
श्रियः कुरूणामधिपस्य पालनी, प्रजासु वृत्तिं यमयुङ्क वेदितुम् ।
सवर्णिलिङ्गी विदितः समाययौ, युधिष्ठिरं द्वैतवने वनेचरः ॥ 1.1 ॥
कृतप्रणामस्य महीं महीभुजे, जितां सपनेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ 1.2 ॥
द्विषां विघाताय विधातुमिच्छतो, रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं, विनिश्चितार्थामिति वाचमाददे ॥ 1.3॥
क्रियासु युक्तैर्नृप चारचक्षुषो, न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा, हितं मनोहारि च दुर्लभं वचः ॥ 1.4॥
स किंसखा साधु न शास्ति योऽधिपं, हितान्न यः संशृणुते स किंप्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं, नृपेष्वमात्येषु च सर्वसम्पदः ॥ 1.5॥
निसर्गदुर्योधमबोधविक्लवाः, क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया, निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥1.6॥
विशङ्कमानो भवतः पराभवं, नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते, नयेन जेतुं जगती सुयोधनः ॥ 1.7॥
तथापि जिह्मः स भवजिगीषया, तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन्भूतिमनार्यसंगमाद्वरं, विरोधोऽपि समं महात्मभिः ॥ 1.8 ॥
कृतारिषड्वर्गजयेन मानवीम्, अगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तंदिवमस्ततन्द्रिणा, वितन्यते तेन नयेन पौरुषम् ॥1.9॥
सखीनिव प्रीतियुजोऽनुजीविनः, समानमानान्सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः, कृताधिपत्यामिव साधु बन्धुताम् ॥1.10॥
असक्तमाराधयतो यथायथं, विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान्, न बाधतेऽस्य त्रिगणः परस्परम्॥1.11॥
निरत्ययं साम न दानवर्जितं, न भूरि दानं विरहय्य सत्क्रियां ।
प्रवर्तते तस्य विशेषशालिनी, गुणानुरोधेन विना न सत्क्रिया ॥1.12॥
वसूनि वाञ्छन्न वशी न मन्युना, स्वधर्म इत्येव निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा, निहन्ति दण्डेन स धर्मविप्लवं ॥ 1. 13॥
विधाय रक्षान्परितः परेतरान्श ङ्किताकारमुपैति शङ्कितः ।
क्रियापवर्गेष्वनुजीविसात्कृताः, कृतज्ञतामस्य वदन्ति सम्पदः ॥1.14॥
अनारतं तेन पदेषु लम्भिता, विभज्य सम्यग्विनियोगसत्क्रियाः ।
फलन्त्युपायाः परिबृंहितायती, रुपेत्य संघर्षमिवार्थसम्पदः ॥ 1.15 ॥
अनेकराजन्यरथाश्वसंकुलं, तदीयमास्थाननिकेतनाजिरं ।
नयत्ययुग्मच्छ्दगन्धिरार्द्रतां, भृशं नृपोपायनदन्तिनां मदः ॥ 1.16 ॥
सुखेन लभ्या दधतः कृषीवलैः, अकृष्टपच्या हब सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृकाः चिराय तस्मिन्कुरवश्चकासते ॥1.17॥
उदारकीर्तेरुदयं दयावतः, प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैरुपस्रुता, वसूपमानस्य वसूनि मेदिनी ॥1.18॥
महौजसो मानधना धनार्चिता, धनुर्भूतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयः, प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥1.19॥
महीभुजां सच्चरितैश्चरैः क्रियाः, स वेद निःशेषमशेषितक्रियः ।
महोदयैस्तस्य हितानुबन्धिभिः, प्रतीयते धातुरिवेहितं फलैः ॥ 1.20॥
न तेन सज्यं क्वचिदुद्यतं धनुः, वा कृतं कोपविजिह्ममाननम् ।
गुणानुरागेण शिरोभिरुह्यते, नराधिपैर्माल्यमिवास्य शासनम्॥ 1.21॥
स यौवराज्ये नवयौवनोद्धतं, निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा, धिनोति हव्येन हिरण्यरेतसम्॥1.22॥
प्रलीनभूपालमपि स्थिरायति, प्रशासदावारिधि मण्डलं भुवः ।
स चिन्तयत्येव भियस्त्वदेष्यतीः, अहो दुरन्ता बलवद्विरोधिता ॥ 1.23॥
कथाप्रसङ्गेन जनैरुदाहृताद्, अनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद्व्यथते नताननः, स दुःसहान्मन्त्रपदादिवोरगः ॥ 1.24॥
तदाशु कर्तुं त्वयि जिह्ममुद्यते, विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां, प्रवृत्तिसाराः खलु मादृशां गिरः ॥ 1.25॥
इतीरयित्वा गिरमात्तसत्क्रिये, गतेऽथ पत्यौ वनसंनिवासिनाम् ।
प्रविश्य कृष्णा सदनं महीभुजा, तदाचचक्षेऽनुजसन्निधौ वचः ॥ 1.26॥
निशम्य सिद्धिं द्विषतामपाकृतीः, ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनी, रुदाजहार द्रुपदात्मजा गिरः ॥ 1.27 ॥
भवादृशेषु प्रमदाजनोदितं, भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति, मां निरस्तनारीसमया दुराधयः ॥ 1.28॥
अखण्डमाखण्डलतुल्यधामभिः, चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वया स्वहस्तेन मही मदच्युता' मतङ्गजेन स्रगिवापवर्जिता ॥ 1.29 ॥
व्रजन्ति ते मूढधियः पराभवं, भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि प्रति शठास्तथाविधान्, असंवृताङ्गान्निशिता इवेषवः ।। 1.30 ॥
गुणानुरक्तां अनुरक्तसाधनः, कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इवापहारयेन्, मनोरमां आत्मवधूं इव श्रियं ॥ 1.31॥
भवन्तं एतर्हि मनस्विगर्हिते, विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः, शमीतरुं शुष्कं इवाग्निरुच्छिखः॥1.32॥
अबन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयं एव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना, न जातहार्देन न विद्विषादरः ॥1.33॥
परिभ्रमंल्लोहितचन्दनोचितः, पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति ते कच्चिदयं वृकोदरः।।1.34॥
विजित्य यः प्राज्यं अयच्छदुत्तरान्कु रूनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन, करोति मन्युं न कथं धनंजयः ॥ 1.35 ॥
बनान्तशय्याकठिनीकृताकृती, कचाचितौ विष्वगिवागजो गजौ ।
कथं त्वं एतो धृतिसंयमो यमौ विलोकयन्नुत्सहसे न बाधितुं ॥ 1.36
इमां अहं वेद न तावकीं धियं, विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ 1.37॥
पुराधिरूढः शयनं महाधनं, विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भा अधिशय्य स स्थली, जहासि निद्रां अशिवेः शिवारुतेः ॥ 1.38॥
पुरोपनीतं नृप रामणीयकं, द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं, परेति काश्यं यशसा समं वपुः ॥ 1.39 ॥
अनारतं यो मणिपीठशायिना, वरञ्जयद्राजशिरः स्रजां रजः ।
निषीदतस्तौ चरणो वनेषु ते, मृगद्विजालूनशिखेषु बर्हिषां ॥ 1.40॥
द्विषन्निमित्ता यदियं दशा ततः, समूलं उन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनां ॥ 1.41 ॥
विहाय शान्तिं नृप धाम तत्पुनः, प्रसीद संधेहि वधाय विद्विषां ।
ब्रजन्ति शत्रूनवधूय निःस्पृहाः,
भारवि का सामान्य परिचय
[ काल - 555 से 625 ईसवी लगभग ] [ पिता - श्रीधर/नारायणस्वामी ] [ माता - सुशीला ] [पत्नी - रसिका या रसिकवती ] [ मूलनाम - दामोदर ] [ पुत्र - मनोरथ ] [ पौत्र/पौत्रवधू - वीरदत्त/ गौरी ] [ प्रपौत्र - दण्डी ] [ गोत्र कुशिक ] [ जन्मस्थान - अचलपुर ( महाराष्ट्र ) ] [ सम्प्रदाय - शैव ] [ उपाधि - आतपत्र ] [ आश्रयदाता - विष्णुवर्धन/सिंहविष्णु/ दुर्विनीत / महेन्द्रविक्रम ( सिंहविष्णुपुत्र ) ]
0 Comments:
एक टिप्पणी भेजें