शुकनाशोपदेश मूल भाग एवं शब्दार्थ



 ( शुकनाशोपदेश मूल भाग एवं शब्दार्थ ) 

(1) एवं समतिक्रामत्सु केषुचिद्दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः, प्रतीहारानुपकरणसम्भार सङ्ग्रहार्थमादिदेश। समुपस्थितयौवराज्याभिषेकञ्च तं कदाचिद् दर्शनार्थमागतमारूढविनयमपि विनीत-तरमिच्छन् कर्तुं शुकनासः सविस्तरमुवाच -


पदच्छेद-एवम्। सम्-अतिक्रामत्सु । केषुचित् दिवसेषु। राजा चन्द्रापीडस्य यौवराज्य+अभिषेकम्। चिकीर्षुः, प्रतीहारान् उपकरणसम्भार, सङ्ग्रहार्थम् आदिदेश। समुपस्थित यौवराज्य अभिषेकम् च तम् कदाचिद् दर्शनार्थम् आगतम् आरूढविनयम्+अपि विनीततरम् इच्छन् कर्तुम्+शुकनासः सविस्तरम् उवाच -


(२) तात ! चन्द्रापीड ! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलञ्च निसर्गत एव अभानुभेद्यमरत्नालोकच्छेद्यम- प्रदीपप्रभापनेयम् अतिगहनं तमो यौवनप्रभवम् अपरिणामोपशमो दारुणो लक्ष्मीमदः। कष्टमनञ्जनवर्त्तिसाध्यमपरम् ऐश्वर्यतिमिरान्धत्वम् । अशिशिरो-पचारहार्योऽतितीव्रो दर्पदाहज्वरोष्मा । सततममूलमन्त्रशम्यो विषमो विषय-विषास्वाद‌मोहः। नित्यमस्नानशौचबाध्यो बलवान् रागमलावलेपः। अजस्त्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा भवति इत्यतः विस्तरेणाभिधीयसे ।


पदच्छेद- तात ! चन्द्रापीड! विदित वेदितव्यस्य अधीत सर्व शास्त्रस्य ते+ न-अल्पम्+अपि+उपदेष्टव्यम् अस्ति। केवलम् च निसर्गत एव+अभानु भेद्यम्+अरत्न आलोक छेद्यम्-प्रदीप प्रभा अपनेयम् अतिगहनम् तमः यौवनप्रभवम् अपरिणाम उपशमः दारुणः लक्ष्मीमदः। कष्टम् अनञ्जन+वर्त्ति साध्यम्+अपरम् ऐश्वर्य तिमिर अन्धत्वम् । अशिशिर उपचार हायों अतितीव्रः दर्प दाह ज्वर ऊष्मा । सततम् + अमूल मन्त्र शम्यः विषमः विषय-विष+आस्वाद मोहः। नित्यम्+अस्नान शौच बाध्यः बलवान् रागम् अलावलेपः । अजस्रम्+अक्षपावसानप्रबोधा घोरा च राज्य सुख सन्निपात निद्रा भवति इति अतः विस्तरेण अभिधीयसे ।


(3) गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वम् पछि अमानुषशक्तित्वं चेति महतीयं खल्वनर्थपरम्परा। सर्व अविनयानामेकैकमप्येषामायतनम्, किमुत समवायः। यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । पति अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः ।


पदच्छेद-गर्भ ईश्वरत्वम्+अभिनव यौवनत्वम्+अप्रतिम रूपत्वम्-अमानुष शक्तित्वम् च इति महती इयम् खलु+अनर्थपरम्परा। सर्व अविनयानाम् एक एकम्+अपि एषाम्+आयतनम्, किम्+उत समवायः ।यौवन+आरम्भे च प्रायः शास्त्र जल प्रक्षालन निर्मल अपि कालुष्यम् उपयाति बुद्धिः। अनुज्झित धवलता+अपि+सराग एव भवति यूनाम् दृष्टिः। अपहरति च वात्या एव शुष्क पत्रम् + सम+उद्भूत रजः भ्रान्तिः अतिदूरम् आत्म इच्छया यौवन-समये पुरुषम् प्रकृतिः।

(4) इन्द्रियहरिणहारिणी च सततम् अतिदुरन्तेयमुपभोगमृगतृष्णिका। नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्‌मोह इवोन्मार्गप्रवर्तकः पुरुषमत्यासङ्गो विषयेषुः। "भवादृशा एव भवन्ति भाजनान्युपदेशानाम्।" चूकि अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति चन्द्रमा की किए। सुखेनोपदेशगुणाः। 

पदच्छेद- इन्द्रिय हरिण हारिणी-च-सततम्-अति-दुरन्तेयम् उपभोग-मृग-तृष्णिका। नव यौवन कषायित+आत्मनः+च+सलिलानि इव तानि+एव+विषय स्वरूपाणि+आस्वाद्यम्+आनानि मधुरतराणि आपतन्ति मनसः। नाशयति च दिक् मोह - इव उन्मार्ग-प्रवर्तकः पुरुषम् अत्यास‌ङ्गो विषयेषुः। "भवादृशा एव भवन्ति - भाजनानि+उपदेशानाम्।" अपगतमले हि मनसि स्फटिक-मणौ इव रजनिकर गभस्तयः+ विशन्ति सुखेन उपदेश-गुणाः।


(5) गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयम् अधिकतरमुपजनयति। हरति च सकलमतिमलिनमप्यन्धकारमिव दोषजातं प्रदायकाल प्रदोषसमयनिशाकर इव। गुरुपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममलीकुर्वन् । यति गुणरूपेण तदेव परिणमयति।


पदच्छेद-गुरु-वचनम् +अमलम्+अपि सलिलम्+इव महत्+उपजनयति श्रवणस्थितं शूलम् अभव्यस्य। इतरस्य तु करिण इव शङ्ख आभरणम् आनन-शोभा-समुदयम्- अधिकतरम् उपजनयति। हरति च सकलम् अति-मलिनम्+अपि+अन्धकारम् इव दोषजातम् प्रदोष-समय-निशाकर इव। गुरुपदेशः प्रशम-हेतुः वयः परिणाम इव पलितरूपेण शिरसि- जजालम् अमली-कुर्वन्। गुण-रूपेण तत्+एव परिणमयति।


(6) अयमेव चानास्वादितविषयरसस्य ते काल उपदेशस्य। कुसुमशर शरप्रहारजर्जरिते हृदि जलमिव गलत्युपदिष्टम्। अकारणञ्च भवति दुष्प्रकृतेरन्वयः श्रुतं वाविनयस्य। "चन्दनप्रभवो न दहति किमनलः ?" "किं वा प्रशमहेतुनापि न प्रचण्डतरी भवति बडवानलो वारिणा?' सूक्ति ।


पदच्छेद-अयम्+एवं च अनास्वादित विषय-रसस्य ते काल उपदेशस्य। कुसुम-शर-शर-प्रहार-जर्जरिते हि हदि जलम् इव गलति उपदिष्टम्। अकारणम्+च भवति दुष्वकृतेः अन्वयः श्रुतम् च+अविनयस्य। "चन्दन प्रभवः न दहति किम्+अनलः ?" "किं वा प्रशम-हेतुना अपि न प्रचण्डतरी भवति बडवा+अनलः वारिणा?' ।



(7) गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरचनमब्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः। विशेषेण राज्ञाम्। "विरला हि तेषामुपदेष्टारः सूक्ति ।

पदच्छेद-गुरु उपदेशः च नाम-पुरुषाणाम् अखिल-मल-प्रक्षालन-क्षमम् अजलम्+ स्नानम्, अनुपजात-पलित आदि वैरूप्यम्+अजरं वृद्धत्वम्, अनारोपित मेदः दोषम्+ गुरू-करणम्, अ-सुवर्ण-विरचनम् अग्राम्यम् कर्ण आभरणम्, अतीत ज्योतिः आलोकः, न-उद्वेग-करः प्रजागरः। विशेषेण राज्ञाम्। "विरला हि तेषाम्+उपदेष्टारः"।

(8) प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् उद्दाम- दर्पश्वयथुस्थगित श्रवणविवराश्चोपदिश्यमानमपि ते न शृण्वन्ति । शृण्वन्तोऽपि च गज-निमीलितेनावधीरयन्तः खेदयन्ति हितोपदेश-दायिनो गुरून् अहंकार-दाहज्वरमूर्च्छान्धकारिता "विह्वला-हि राज- प्रकृतिः। चूंकि अलीकाभिमानोन्मादकारीणि धनानि, "राज्यविषविकारतन्द्राप्रदा राजलक्ष्मीः। सूक्ति । पदच्छेद-प्रति शब्दक इव राज-वचनम् अनुगच्छति-जनः भयात् उद्दाम दर्प श्वयथु+स्थगित श्रवणपुट+विवराः+च+उपदिश्यमानम्+अपि ते-न-भृण्वन्ति। शृण्वन्तः अपि-च गज-निमीलितेन अवधीरयन्तः खेदयन्ति - हितोपदेश-दायिनः गुरून् अहंकार-दाह-ज्वर-मूच्र्च्छा अन्धकारिता "विहला हि राजप्रकृतिः। "अलीक अभिमान उन्माद- कारीणि धनानि, "राज्य-विष-विकार-तन्द्रा-प्रदा राजलक्ष्मीः।"

(9) आलोकयतु तावत् कल्याणाभिनिवेशो लक्ष्मीमेव प्रथमम् । इयं हि सुभटखड्ङ्गमण्डलोत्पलवनविश्वमभ्रमरी लक्ष्मीः क्षीरसागरात् पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैः श्रवसश्चञ्चलताम्, कालकूटान्मोहन शक्तिम्, मदिराया मदम् कौस्तुभमणेरतिनैष्ठुर्यम्, इत्येतानि सहवासपरिचयवशाद् विरहविनोदचिह्नानि गृहीत्वेवोद्गता। नहह्येवं विधमपरम् अपरिचितमिह जगति किञ्चिदस्ति यथेयमनार्या ।
पदच्छेद-आलोकयतु तावत् कल्याण अभिनिवेशः लक्ष्मीम् एव प्रथमम् । इयम् कालकूल विष हि सुभट-खड्ग-मण्डल-उत्पल-वन-विभ्रम-भ्रमरी लक्ष्मीः क्षीर सागरात् पारिजात-पल्लवेभ्यः रागम्, इन्दु-शकलात् एकान्त वक्रताम्, उच्चैः श्रवसः चञ्चलताम्, काल कूटान्-मोहन- मदिरा शक्तिम्, मदिराया मदम् कौस्तुभ-मणेः अतिनैष्ठुर्यम्, इति+एतानि सहवास+परिचय+वशाद विरह-विनोद-चिह्नानि गृहीत्वा इव उद्गता। नहि एवम् विधम्-अपरम् अपरिचितम् इह कौस्तुभ मणी जगति किञ्चित् अस्ति यथा इयम्+अनार्या ,

(10) लब्धापि खलु दुःखेन परिपाल्यते, दृढगुणपाशसन्दाननिष्पन्दीकृतापि, नश्यति, उद्दाम-दर्प-भट-सहखोल्लासितासिलता पञ्जर-विधृतापि अपक्रामति, मदजलदुर्दिनान्धकार-गज-घनघटापरिपालितापि प्रपलायते, न परिचयं रक्षति, नाभिजनमीक्षते, न रूपमालोकयते, न कुलक्रममनुवर्तत, न शीलं पश्यति, न वैदग्ध्यं गणयति, न श्रुतमाकर्णयति, न धर्ममनुरुध्यते, न त्यागमाद्रियते, न विशेषज्ञतां विचारयति, नाचारं पालयति, न सत्यमवबुध्यते, न लक्षणं प्रमाणीकरोति । पदच्छेद-लब्धा+अपि खलु-दुःखेन परिपाल्यते, दृढ-गुण-पाश-सन्दान-निष्पन्दी- कृत अपि, नश्यति, उद्दाम दर्प-भट-सहस्त्र उल्लासित+असिलता-पञ्जर-विधृतापि अपक्रामति, मद-जल-दुर्दिन-अन्धकार-गज-घन-घटा-परिपालित-अपि, प्र-पलायते, न परिचयं रक्षति, न+अभिजनम्+ईक्षते, न रूपम्+आलोकयते, न कुलक्रमम् अनुवर्तते, न शीलं पश्यति, न वैदग्ध्यं गणयति, न श्रुतम् आकर्णयति, न धर्मम् अनुरुध्यते, न त्यागम्+आद्रियते, न विशेषज्ञतां विचारयति, न+आचारं पालयति, न सत्यम्+अवबुध्यते, न लक्षणम्+ प्रमाणी-करोति ।

(11) गन्धर्वनगर लेखेव पश्यत एव नश्यति। अद्याप्यारूढमन्दरपरिवर्त्तावर्तभ्रान्तिजनितसंस्कारेव परिभ्रमति।
कमलिनीसंचरणव्यतिकर लग्न नलिन नाल कण्टकक्षतेव न क्वचिदपि निर्भरमाबध्नाति पदम् । अति प्रयत्नविधृतापि परमेश्वरगृहेषु - विविध-गन्धगज-गण्ड-मधुपानमत्तेव परिस्खलति। "पारुष्यमिवोपशिक्षितुम् असिधारासु निवसति।" विश्वरूपत्वमिव ग्रहीतुमाश्रिता, नारायणमूर्तिम्। अप्रत्ययबहुला च दिवसान्त कमलमिव समुपचितमूलदण्ड कोषमण्डलमपि मुञ्चति भूभुजम् । पदच्छेद-गन्धर्व- -नगर लेखा इवं पश्यत एव नश्यति । अद्यापि आरूढ - मन्दर-परिवर्त्त आवर्त-भ्रान्ति-जनित-संस्कार इव परिभ्रमति। कमलिनी-संचरण-व्यतिकर- लग्न-नलिन-नाल-कण्टकक्षता इव न क्वचित्+अपि निर्भरम् आबध्नाति पदम्। अति प्रयत्न-विधृता+अपि परमेश्वर-गृहेषु विविध-गन्ध-गज-गण्ड-मधु-पान-मत्त इव परिस्खलति। "पारुष्यम् इव उपशिक्षितुम् असि धारासु निवसति ।" विश्वरूपत्वम् इव ग्रहीतुम्+आश्रिता, नारायणमूर्तिम्। अप्रत्यय-बहुला च दिवसान्त-कमलम् इव समुपचित-मूल-दण्ड-कोष- मण्डलम् अपि मुञ्चति भू-भुजम् ।

12) लतेव विटपकानध्यारोहति। "गङ्गेव वसुजनन्यपि तरङ्गबुद्बुदचञ्चला,' दिवसकरगतिरिव प्रकटित विविधसंक्रान्तिः। 'पातालगुहेव तमोबहुला।' 'हिडिम्बेव भीमसाहसैकहार्य्यहृदया। प्रावृडिवाचिरद्युतिकारिणी, दुष्टपिशाचीव दर्शितानेकपुरुषोच्छाया स्वल्पसत्त्वमुन्मत्तीकरोति , पदच्छेद-लता इव विटपकान् अध्यारोहति। 'गङ्गा इव वसु-जननी अपि तरङ्ग-बुद्बुद-चञ्चला,' दिवसकर-गतिः इव प्रकटित विविध संक्रान्तिः। 'पाताल-गुहा इव तमः बहुला।' 'हिडिम्बा इव भीम साहस एक हाय हृदया।' प्रावृट् इव अचिर द्युति- कारिणी, दुष्ट-पिशाची इव दर्शित अनेकपुरुषः उच्छाया सु+अल्प-सत्त्वम्-उन्मत्ती-करोति,











हमसे जुड़े

Translate

Featured Post