Indra suktam ( इन्द्र सूक्तम् । 2.12 । )


 इन्द्र- सूक्तम् (ऋ० २।१२ ) ऋषि - गृत्समद्, देवता- इन्द्र, छन्द-त्रिष्टुप्


यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्। यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेता॑ नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः । । १ । ।


पदपाठ-यः। जातः। ए॒व। प्रथ॒मः। मन॑स्वान्। दे॒वः। दे॒वान्। क्रतु॑ना। परि॒िऽअभू॑षत्। यस्य॑। शुष्मा॑त्। रोद॑स॒ इति॑। अ॒भ्य॑सेताम्। नृ॒म्णस्य॑ म॒ह्ना। सः। ज॒ना॒स॒ः। इन्द्र॑ः।।१।।

सायण-भाष्य- गृत्समदो ब्रूते । जनासः जना हे असुराः यो जात एव जायमान एव सन् प्रथमः देवानां प्रधानभूतः मनस्वान् मनस्विनामग्रगण्यः देवः द्योतमानः सन् क्रतुना वृत्रवधादिलक्षणेन स्वकीयेन कर्मणा देवान् सर्वान् यागदेवान् पर्यभूषत् रक्षकत्वेन पर्यग्रहीत् अत्यक्रामत् । यस्येन्द्रस्य शुष्मात् शारीरात् बलात् रोदसी द्यावापृथिव्यौ अभ्यसेतामबिभीताम् नृम्णस्य सेनालक्षणस्य बलस्य महना महत्त्वेन युक्तः स इन्द्रः नाहमिति ।

अन्वय-यः प्रथमः मनस्वान् देवः जातः एव क्रतुना देवान् पर्यभूषत् यस्य शुष्मात् रोदसी अभ्यसेताम्, जनासः ! नृम्णस्य मह्ना सः इन्द्रः ।

शब्दार्थ - यः = जो, जिसने । प्रथमः = प्रधान, प्रमुख । मनस्वान् = मनस्वी, बुद्धिमान्। देवः = देव ने। जातः एव = उत्पन्न होते ही। क्रतुना = पराक्रम से; शक्ति से, कर्म से। देवान् = देवों को। पर्यभूषत् = अभिभूत कर लिया, अतिक्रमण किया। यस्य = जिसकी। शुष्मात् = बल से, शक्ति से, पराक्रम से। रोदसी द्युलोक और पृथिवी-लोक। अभ्यसेताम् = डर गये, काँप गये। जनासः = हे मनुष्यो ! नृम्णस्य = महान् बल की। मह्ना = महिमा से, महत्त्व से (युक्त) । सः = वह। इन्द्रः = इन्द्र।



अनुवाद - जिस प्रमुख (एवं) मनस्वी देव ने उत्पन्न होते ही (अपने) पराक्रम से देवों को अभिभूत कर लिया (अथवा देवताओं का अतिक्रमण किया); जिसकी शक्ति से द्युलोक और पृथिवीलोक काँप गये, हे लोगों ! महान् बल की महिमा से युक्त वह (ही) इन्द्र है।
व्याकरण-जातः = जन् + क्त प्र०ए०। मनस्वान् = मनस् + मतुप् प्र०ए० (वतुप्)। पर्यभूषत् = परि + भूष् + लङ; प्र०पु० एक०व० । अभ्यसेताम् = भ्यस् + लङ्, प्र०पु०द्वि०। मह्ना = महिम्ना का वैदिक रूप। जनासः = (वैदिक रूप) = जनाः, सम्बोधन बहुवचन, सर्वानुदात्त। 'जन' शब्द से जस् प्रत्यय होने पर 'आज्जसेरसुक्’' सूत्र से असुक् (अस्) होकर बना रूप।

यः पृ॑थि॒वीं व्यथ॑माना॒मद॑ह॒द्यः पर्व॑ता॒न्प्रन्कु॑पिता॒ अर॑म्णात् । यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्र॑ः ।। २ ।।

पदपाठ-यः। पृथि॒वीम्। व्यथ॑मानाम्। अगृ॑ह॒त्। यः। पर्व॑तान्। प्रऽकु॑पितान्। अर॑म्णात्। यः। अ॒न्तरि॑क्षम्। वि॒ऽम॒मे॒। वरी॑यः। यः। द्याम्। अस्त॑भ्नात्। सः। ज॒ना॒स॒ः। इन्द्र॑ ।।२।।
सायण-भाष्य-हे जनाः! यः इन्द्रः व्यथमानां चलतीं पृथिवीम् अदृहत् शर्करादिभिर्दृढामकरोत्। ‘दृह दृहि वृद्धौ' । य: च प्रकुपितान् इतस्ततश्चलितान् पक्षयुक्तान् पर्वतान् अरम्णात् नियमितवान् स्वे स्वे स्थाने स्थापितवान् । यश्च वरीयः उरुमन्तरिक्षं विमसे निर्ममे विस्तीर्णं चकारेत्यर्थ। यः च द्यां दिवमस्तभ्नात् तस्तम्भ निरुद्धामकरोत्। सः एव इन्द्रः नाहमिति ।

शब्दार्थ-यः = जिसने । व्यथमानाम् = काँपती हुई, डगमगाती हुई । पृथिवीम् जिसने । प्रकुपितान् = पृथ्वी को। अगृ॑हत् = दृढ़ किया, स्थिर किया । यः = इधर-उधर उड़ने वाले, इधर-उधर चलने वाले । पर्वतान् = पर्वतों को। अरम्णात् नियमित किया, स्थापित किया। यः = जिसने । वरीयः = विस्तृत । अन्तरिक्षम् अन्तरिक्ष को । विममे = विशेष रूप से नापा, निर्माण किया। यः = जिसने । द्याम् द्युलोक को। अस्तभ्नात् = रोका, निरुद्ध किया, थामा। जनासः = हे लोगों, मनुष्यों ! सः = वह। इन्द्रः = इन्द्र।

अनुवाद - जिसने काँपती हुई (डमगाती हुई) पृथ्वी को स्थिर किया; जिसने उड़ने वाले पर्वतों को (अपने-अपने स्थान पर) स्थापित किया; जिसने विस्तृत अन्तरिक्ष को मापा (अथवा विस्तृत अन्तरिक्ष का निर्माण किया); जिसने द्युलोक को (गिरने से) रोका (अथवा द्युलोक को थामा) हे लोगो ! वह इन्द्र है।
व्याकरण-व्यथमानाम् = व्यथ् + शानच् + टाप् द्वि० एकवचन। अबृंहत् =√दृह् + लङ् प्र०पु०, एकव० । प्रकुपितान् = प्र + √कुप् + क्त, द्वि बहुव० । ऋग्वेद में स्वर बाद में होने पर पदान्त आन् के नकार का लोप होकर पूर्ववर्ती स्वर अनुनासिक हो जाता है। इसलिए यहाँ 'प्रकुपिताँ' रूप प्राप्त हुआ। अरम्णात् √रम् + श्ना + लङ्, प्र०पु०, एकव० । विममे = वि + √ मा + लिट्, प्र०पु०, एकव०। अस्तभ्नात् = √स्तम्भ् + लङ्, प्र०पु०, एकव० ।

यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धून्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ । यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ स॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्र॑ः ।। ३ ।।

पदपाठ-यः। ह॒त्वा। अहि॑म्। अरि॑णात्। स॒प्त। सिन्धु॑न्। यः। गाः उ॒त्ऽआजॆत्। अ॒प॒ऽधा। व॒लस्य॑।। यः। अश्म॑नोः। अ॒न्तः। अ॒ग्निम्। ज॒जन॑ स॒मूऽवृक्। स॒मत्ऽसु॑। सः। जनासः। इन्द्र॑ः।।३।

सायण-भाष्य-यः अहिं मेघं हत्वा मेघहननं कृत्वा सप्त सर्पणशीलाः सिन्धून् स्यन्दशीला अपः अरिणात् प्रेरयत् । यद्वा सप्त गङ्गायमुनाद्या मुख्या नदीररिणात् । 'रीङ् स्रवणे' क्रयादिः। यः च वलस्य वलनामकस्यासुरस्य अपधा तत्कर्तृ कान्निरोधान्निरुद्धाः गाः उदाजत् निरगमयत्। अपधा। अपपूर्वाद्दधातोः - आतश्चोपसर्गे (पा० ३।३।१०६) इति भावेऽङ् प्रत्ययः । सुपां सुलुक् (पा० ७।१।३९) इति पञ्चम्या आकारः। यश्चाश्मनोः, अश्नुते व्याप्रोत्यन्तरिक्षमित्यश्मा मेघः । अत्यन्तमृदुरूपयोर्मेघयोः अन्तः मध्ये वैद्युतमग्निं जजान उत्पादयामास । यश्च समत्सु संवृक् भवति सः इन्द्रः नाहमिति ।
अन्वय-यः अहिं हत्वा सप्तसिन्धून् अरिणात्, यः वलस्य अपधा गाः उदाजत्, यः अश्मनोः अन्तः अग्नि जजान, समत्सु सवृक् जनासः! सः इन्द्रः।

शब्दार्थ - यः = जिसने । अहिम् = वृत्र नामक असुर को, जल को रोकने वाले मेघ को। हत्वा = मार कर । सप्त = सात । सिन्धून् नदियों को। अरिणात् जिसने । वलस्य = वल नामक असुर (बलासुर) प्रवाहित किया, बहाया। यः = जिसने । वलस्य की। अपधा = गुफा से, बाड़े से । गाः = गायों को । उदाजत् = बाहर निकाला। यः जिसने। अश्मनोः = बादलों के, पत्थरों के । अन्तः = मध्य में। अग्निम् अग्नि को। जजान = उत्पन्न किया। समत्सु = युद्धों में। संवृक् = विनाश करने वाला, संहार करने वाला। जनासः = हे लोगो ! सः = वह। इन्द्रः

अनुवाद - जिसने वृत्र को मार कर सात नदियों को प्रवाहित किया, जिसने बल नामक असुर की गुफा से गायों को बाहर निकाला, जिसने दो बादलों (अथवा पत्थरों) के मध्य में अग्नि को उत्पन्न किया, जो युद्धों में (शत्रु का विनाश करने वाला है, हे लोगों ! वह इन्द्र है।

व्याकरण-हत्वा = √हन् + क्त्वा । अरिणात् = √रीङ् (रि) + लङ, प्र०पु०, एकव०। अपधा = अप + √धा + अङ्-पं० एकव० । समत्सु = सम् + √अद् क्विप्, सप्तमी बहु० । उदाजत् = उत् + √अज् + अङ, प्र०पु० एकव० । जजान = √जन् + लिट्, प्र०पु० एकव० । संवृक् = सम् + √वृज् + क्विप्, प्र० एक० ।

येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑र॒ गुहार्कः । श्व॒ध्नीव॒ यो जि॑गी॒वाँ ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्र॑ः । । ४ । ।

पदपाठ-येन॑ इ॒मा। विश्वा॑। च्यव॑ना कृ॒तानि॑ । यः। दास॑म्। वर्णैम्। अध॑रम् । गुहा॑ । अक॒रित्य॑कः ।। श्व॒घ्नीऽइ॑व । यः । जि॑गी॒वान्। ल॒क्षम् । आद॑त्। अ॒र्यः। पु॒ष्टानि॑ । सः। ज॒ना॒स॒ः। इन्द्र॑ः।।४।।
सायण-भाष्य-येन इन्द्रेण इमा इमानि विश्वा च्यवना नश्वराणि भुवनानि कृतानि स्थिरीकृतानि। यः च दासं वर्णं शूद्रादिकम्, यद्वा दासमुपक्षपयितारम्। अधरं निकृष्टमसुरं गुहा गुहायां गूढस्थाने नरके वा अकः अकार्षीत्। यः अर्यः अरेः शत्रोः संबन्धीनि पुष्टानि आदत् आदत्ते । तत्र दृष्टान्तः । श्वघ्नीव । श्वभिर्मृगान् हन्तीति श्वध्नी व्याधः। यथा व्याधो जिघृक्षितं मृगं परिगृह्णाति तद्वत् ।
अन्वय- येन इमा विश्वा च्यवना, कृतानि, यः अधरम् दासम् वर्णम् गुहा अकः, यः श्वध्नीव लक्षम् जिगीवान्, सः अर्यः पुष्टानि आदत्, जनासः ! सः इन्द्रः।

शब्दार्थ-येन = जिसके द्वारा। इमा = ये। विश्वा = सम्पूर्ण । च्यवना । गतिशील, नश्वर । कृतानि = कर दी गई । यः = जिसने । अधरम् = निकृष्ट, नीच । दासम् वर्णम् = दास (शूद्र) वर्ण को, दास जाति को । गुहा = गुफा में, गूढ़ स्थान में। अक: = कर दिया। यः = जिसने । श्वध्नीव = व्याध (शिकारी) की भाँति, जुआरी की भाँति । लक्षम् = लक्ष्य को, दाँव को । जिगीवान् = जीते हुए, जीत कर । अर्यः = शत्रु के । पुष्टानि शत्रु के । पुष्टानि = धनों को। आदत् धनों को। आदत् = ग्रहण किया, छीन लिया। जनासः = हे लोगो ! सः = वह । इन्द्रः = इन्द्र।

अनुवाद - जिसके द्वारा ये सम्पूर्ण (वस्तुएँ) गतिशील कर दी गई हैं, जिसने निकृष्ट दास वर्ण को गुफा (या नरक) में कर दिया, अपने शिकार को जीत लेने वाले शिकारी की भाँति (या दाँव को जीत लेने वाले जुआरी की भाँति) जिसने शत्रु के धनों को छीन लिया है, हे लोगों ! वह इन्द्र है।

व्याकरण- इमा, विश्वा, च्यवना = प्र०बहुवचन (वैदिक रूप) - इनके क्रमशः इमानि, विश्वानि, च्यवनानि; लौकिक रूप हैं। गुहा = (वैदिक रूप) = गुहायाम्, सप्तमी के प्रत्यय का लोप हो गया है। अक: = (वैदिक रूप) कृ + लुङ, प्र०पु० एकव० । जिगीवान् = जि + क्वसु, प्र०एकव० । वैदिक संधि के नियमविशेष से नकार के स्थान पर अनुनासिक हो गया। अर्यः = (वैदिक रूप) अरेः, षष्ठी एकव०। आदत् = (वैदिक रूप) आ + √दा + लुङ् प्र०पु० एक० ।

य॑ स्मा॑ पृच्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑नु॒ र्नैषो अ॒स्तीत्ये॑न॒म्। सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वामिनाति॒ श्रदस्मै॑ धत्त॒ स ज॑नास॒ इन्द्र॑ः । । ५ । ।

पदपाठ-यम्। स्म॒। पृच्छन्ति। कु । सः । इति॑ । घोरम् । उ॒त । ईम् । आहुः । न । एष॑। अ॒स्ति॒ि। इति॑। ए॒न॒म्। सः। अयैः । पुष्टीः। विज॑ऽइ॒व। आ। मि॒ना॒ति॒। श्रत्। अ॒स्मै॒। धत्त॒। सः। जनासः । इन्द्र॑ः ।। 4 ।।

सायण-भाष्य- अपश्यन्तो जनाः घोरं शत्रूणां घातकं यं पृच्छन्ति स्म कुह सेति। स इन्द्रः कुत्र वर्तते इति । सेति । 'सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपे गुणः । न क्वचिदसौ तिष्ठतीति मन्यमानः एनम् इन्द्रम् आहुः एषः इन्द्रः न अस्तीति । यथा च मन्त्र:- 'नेन्द्रो अस्तीति नेम उत्व आह' (ऋ०स० ८.१००.३) इति । ईम् इति पूरणः। सः इन्द्रः विज इव । इव शब्द एवार्थे । उद्वेजक एव सन्। अर्यः अरे: सबन्धीनि पुष्टीः पोषकाणि गवाश्वादीनि धनानि आ मिनाति सर्वतो हिनस्ति । 'मीङ् हिंसायाम्' । 'मीनातेर्निगमे' इति ह्रस्वः । तस्मात् श्रदस्मै इन्द्राय धत्त । स इन्द्रोऽस्तीति विश्वासमत्र कुरुत । यद्यप्यसौ विशेषतोऽस्माभिर्नं दृश्यते तथापि अस्तीति विश्वासं कुरुत एवं निर्धारणीयमहिमोपेतः सः इन्द्रः नाहमिति ।

अन्वय-यं घोरम् सः कुह इति पृच्छन्ति उत ईम् एनम् एषः न अस्ति इति आह, सः विजः इव अर्यः पुष्टीः आमिनाति अस्मै श्रत् धत्त, जनासः ! सः इन्द्रः ।

शब्दार्थ--यम् घोरम् = जिस भयंकर (देवता) के विषय में। सः = वह। कुह = कहाँ । इति = ऐसा, इस प्रकार । पृच्छन्ति = पूछते हैं। उत = और। ईम् = पाद की पूर्ति हेतु निपात। एनम् = जिसके (इसके) विषय में। एषः = यह। न = नहीं। अस्ति = है। इति = ऐसा, इस प्रकार । आहूः = कहते हैं । सः = वह । विजः इव = विजेता की भाँति, जुआरी की तरह। अर्यः = शत्रु के । पुष्टीः = धन का, सम्पत्ति को । आ मिनाति = नष्ट कर देता है, छीन लेता है। अस्मै = इसके लिए, इसमें ! श्रत् = श्रद्धा। धत्त = धारण करो । जनासः = हे मनुष्यों ! सः = वह। इन्द्रः इन्द्र है।

अनुवाद - जिस भयंकर (देवता) के विषय में "वह कहां है?" ऐसा (लोग) पूछते हैं; और जिसके विषय में "यह नहीं है" इस प्रकार (भी) लोग कहते हैं, वह (देवता) विजेता की भाँति शत्रु के धन को पूर्णतः नष्ट कर देता है बल-पूर्वक छीन लेता है); इसमें श्रद्धा धारण करो। हे लोगो ! वह इन्द्र है।

व्याकरण- कुह = किम् + ह (वैदिक) । सेति = सः + इति, विसर्ग का लोप होकर गुणसंधि हुई। पृच्छन्ति = √प्रच्छ् + लट्, प्र०पु०बहु० । आहुः =√ब्रू (आह) लट् या लिट् प्र०पु०बहु० । अर्यः = (वैदिक रूप) अरि + षष्ठी एकव, । अरेः । पुष्टीः = √पुष् + क्तिन् + द्वि बहुव० । मिनाति = √मी + लट्, प्र०पु० एकव० (वैदिक रूप)। धत्त = √धा + लोट् म०पु० बहुव० ।

यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य कीरेः । यु॒क्तर्ग्राव्णो यो॑ ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मम्य॒ स ज॑नास॒ इन्द्र॑ः । । ६ । ।

प॒दपाठ-यः। र॒भ्रस्य॑ चा॒दि॒ता । यः । कृ॒शस्य॑ ब्र॒हण॑ः । नाध॑मानस्य । कीरेः ।। युक्तऽर्ग्राव्णः। यः। अ॒वि॒ता। सु॒ऽशिप्रः । सु॒तसो॑मस्य । सः । ज॒ना॒स॒ः। इन्द्र॑ः ।।६।।
सायण-भाष्य-यो रध्रस्य। 'रध् हिंसासंराद्धयो:' । समृद्धस्य चोदिता धनानां प्रेरयिता भवति। यः च कृशस्य च दरिद्रस्य च, यः च नाधमानस्य । नाघृणाधृयाच्ञोप- तापैश्वर्याशीःषु'। याचमानस्य कीरेः । करोतेः कीर्तयतेर्वा । स्तोतुः ब्रह्मणः ब्राह्मणस्य च धनानां प्रेरयिता। यः च सुशिप्रः शोभनहनुः सुशीर्षको वा सन् युक्तग्राव्णः सुतसोमस्य अभिषुतसोमस्य यजमानस्य अविता रक्षिता भवति सः एव इन्द्रः नाहमिति ।
अन्वय-यः रध्रस्य चोदिता, य कृशस्य, यः नाधमानस्य कीरे: ब्रह्मणः सुशिप्रः, यः युक्तग्राव्णः सुत सोमस्य अविता, जनासः ! सः इन्द्रः ।

शब्दार्थ-य = जो । रधस्य = समृद्ध का, धनवान् का। चोदिता = प्रेरक, प्रेरणा देने वाला । यः = जो। कृशस्य दरिद्र का, निर्धन का। यः = जो। नाधमानस्य = याचना करने वाले का । कीरेः = स्तुति करने वाले का, स्तुतिगायक का। ब्रह्मणः = पुरोहित का । सुशिप्रः = सुन्दर हनु (ठोड़ी) वाला, सुन्दर ओष्ठ वाला, सुन्दर बालों वाला । यः = जो। युक्तग्राव्णः = पत्थरों को तैयार किये हुए का, पत्थरों को संयोजित करने वाले का। सुतसोमस्य = सोम रस को निचोड़ने वाले का, सोम को पीस लेने वाले का। अविता = रक्षक। जनासः = हे लोगों ! स = वह। इन्द्रः = इन्द्र।

अनुवाद - जो समृद्धिशाली व्यक्ति का प्रेरक है, जो निर्धन का (प्रेरक है); जो याचना करने वाले तथा स्तुति करने वाले पुरोहित का (प्रेरक) है; सुन्दर हनु वाला (अथवा सुन्दर ओष्ठ वाला) जो (सोम पीसने के लिये) पत्थरों को तैयार करने वाले तथा सोम रस को निचोड़ने वाले (यजमान) का रक्षक है, है लोगो ! वह इन्द्र है।
व्याकरण-नाधमानस्य = नाध् + शानच् + ष० एकव० ।√ कृ + कीरेः इ; वैदिक रूप। अविता = अव + तृच् + प्र० एकव० ।

यस्य॑श्वा॑सः प्र॒दिश॒ यस्य गावो यस्य ग्रामा यस्य॒ विश्वे॒ रथा॑सः । यः सूर्य॒ य उ॒षस॑ ज॒जान॒ यो अ॒पा॑ ने॒ता स ज॑नास॒ इन्द्र॑ ।।७।।

पदपाठ-यस्य॑। अ॒श्वा॑सः। प्र॒दिशः॑ । यस्य॑ । गावः॑ः । यस्य॑ । ग्रामा॑ः । यस्य॑ । विश्वे॑। रथा॑सः। यः। सूर्य॑म् । यः । उ॒षस॑म् ज॒जन॑ । यः। अ॒पाम्। नेता। सः। ज॒नासः । इन्द्र॑ः ।।७।।
सायण-भाष्य-यस्य सर्वान्तर्यामितया वर्तमानस्य प्रदिशि प्रदेशनेऽनुशासने अश्वासः अश्वा वर्तन्ते। यस्य अनुशासने गावः । यस्य अनुशासने ग्रामाः । ग्रसन्तेऽत्रेति ग्रामा जनपदाः। यस्य आज्ञायां विश्वे सर्वे रथासः रथा वर्तन्ते । यः च वृत्रं हत्वा सूर्यं जजान जनयामास। यः च उषसम्। तथा मन्त्र:-'जजान सूर्यमुषसं सुदंसा:' (ऋ०सं० ३.३२.८) इति। यः च मेघभेदनद्वारा अपां नेता प्रेरकः सः इन्द्रः इत्यादि प्रसिद्धम् ।

अन्वय-यस्य प्रदिशि अश्वासः, यस्य गावः यस्य ग्रामाः, यस्य विश्वे रथासः, यः सूर्यम् यः उषसम् जजान, यः अपाम् नेता, जनासः ! सः इन्द्रः ।

शब्दार्थ-यस्य = जिसके । प्रदिशि = अनुशासन में, आज्ञा में। अश्वासः = घोड़े । यस्य = जिसके। गावः = गायें । यस्य जिसके । ग्रामाः = ग्राम, गाँव। यस्य = जिसके । विश्वे = सम्पूर्ण । रथासः = रथ । यः = जो। सूर्यम् = सूर्य को। यः = जो। उषसम् = उषा को। जजान = उत्पन्न किया। यः = जलों का। नेता = ले आने वाला, बरसाने वाला। जनासः = हे लोगो ! सः = वह । इन्द्रः = इन्द्र। जो। अपाम् =

अनुवाद - जिसके अनुशासन (आज्ञा ) में घोड़े हैं; जिसके (अनुशासन में) गायें हैं; जिसके (अनुशासन में) ग्राम हैं; जिसके (अनुशासन में) सम्पूर्ण रथ हैं; जिसने सूर्य को ( उत्पन्न किया है); जिसने उषा को उत्पन्न किया है; जो (बादलों में से) जलों को लेने वाला (बरसाने वाला) है, है लोगो ! वह इन्द्र है।

व्याकरण-विश्वे = विश्व शब्द के प्र०ब० का वैदिक रूप। अश्वासः, रथासः = अश्वाः रथाः, का वैदिक रूप। जजान = √जन् + लिट्, प्र०पु० एकव० । नेता = नी + तृच्, प्र० एकव० ।

यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भयो॑ अ॒मित्रा॑ः ।स॒मा॒नं चि॒द्रथ॑मातस्थि॒िवा॑सा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्र॑ः । । ८ । ।

पद॒पाठ-यम्। क्रन्द॑सा॒ इति॑ सं॒य॒ती इति॑ स॒मुऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परै। अव॑रे। उ॒भयो॑। अ॒मित्रा॑ः । स॒मा॒नम्। चत्। रथ॑म् आ॒त॒स्थऽवसा॑। नाना॑ । ह॒वेते॒ इति॑ । सः। ज॒ना॒स॒ः। इन्द्रः ||८||

सायण - भाष्य-यं क्रन्दसी रोदसी शब्दं कुर्वाणे मानुषी दैवी च द्वे सेने वा संयती परस्परं संगच्छन्त्यौ यमिन्द्रं विह्वयेते स्वरक्षार्थं विविधमाह्वयतः । परे उत्कृष्टाः अवरे अधमाश्च उभयाः उभयविधाः अमित्राः शत्रवः यमाह्वयन्ति । समानम् इन्द्ररथसदृशं रथम् आतस्थिवांसा आस्थितौ द्वौ रथिनौ तमेवेन्द्रं नाना पृथक्-पृथक् हवेते आह्वयेते। यद्वा समानमेकरथमारूढाविन्द्राग्नी हवेते यज्ञार्थं यजमानैः पृथगाहूयेते तयोरन्यतरः सः इन्द्रः नाहमिति ।
अन्वय-क्रन्दसी संयती यम् विह्वयेते, परे अवरे उभयाः अमित्राः समानम् रथम् आतस्थिवांसा नाना हवेते, जनासः ! सः इन्द्रः ।

शब्दार्थ- क्रन्दसी = शब्द (क्रन्दन) करती हुई, सिंहनाद करती हुई, जोर- जोर से चिल्लाती हुई। संयती = परस्पर युद्ध करती हुई, एक साथ गमन करती हुई। यम् = जिसको। विह्वयेते = विविध प्रकार से आह्वान करती हैं बुलाती हैं, पुकारती हैं। परे = उत्कृष्ट, शक्तिशाली, बलवान्। अवरे = निम्न श्रेणी के, निर्बल। उभयाः = दोनों, दोनों ओर के। अमित्राः = शत्रु । समानम् = सदृश, एक ही प्रकार के, एक। रथम् = रथ पर। आतस्थिवांसा = बैठे हुए। नाना = अनेक प्रकार से, विभिन्न प्रकार से, पृथक्-पृथक्। हवेते = आह्वान करते हैं, बुलाते हैं। जनासः = हे मनुष्यो ! सः = वह। इन्द्रः = इन्द्र ।

अनुवाद - सिंहनाद करती हुई तथा परस्पर युद्ध करती हुई (शत्रुओं की सेनाएँ) जिस देवता को विविध प्रकार से पुकारती हैं, (जिसको) बलवान् एवं निर्बल दोनों प्रकार के शत्रु (अपनी सहायता के लिये) बुलाते हैं; जिसको एक ही प्रकार के रथ पर बैठे हुए (दो योद्धा) (अथवा एक ही रथ पर बैठे हुए सारथि तथा योद्धा) विभिन्न प्रकार से बुलाते हैं, हे लोगो ! वह इन्द्र है।

व्याकरण- क्रन्दसी = नपुंसकलिङ्ग 'क्रन्दस्' का प्र०द्वि० । संयती = सम् + √इ + शतृ + ङीप् प्र०द्वि० । विह्वयेते = वि + √ह्वे + लट्, प्र०पु०द्वि० (आ०)। आतस्थिवांसा = आ + √स्था + क्वसु प्र०द्वि० | हवेते = √हू + लट्, प्रथम पु० द्वि० ।

यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते । यो विश्व॑स्य॒ प्रति॒मान॑ व॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्र॑ः ।। ९ ।।

पदपाठ-यस्मा॑त्। न। ऋ॒ते वि॒ऽजय॑न्ते॒ जना॑सः। यम्। युध्य॑मानाः । अव॑से । हव॑न्ते॒।। यः। विश्व॑स्य । प्र॑ति॒ऽमान॑म् । व॒भूव॑ । यः। अ॒च्युतऽच्युत्। सः। ज॒ना॒स॒ः। इन्द्र॑ः।।९।।
सायण-भाष्य-यस्मात् ऋते जनासो जना न विजयन्ते विजयं न प्राप्नुवन्ति । अतः युध्यमाना युद्धं कुर्वाणा जना अवसे स्वरक्षणाय यम् इन्द्रं हवन्ते आह्वयन्ति । यः च विश्वस्य सर्वस्य जगतः प्रतिमानं प्रतिनिधिः बभूव। यः च अच्युतच्युत् अच्युतानां क्षयरहितानां पर्वतादीनां च्यावयिता सः इन्द्रः इत्यादि प्रसिद्धम् ।

अन्वय-यस्मात् ऋते जनासः न विजयन्ते, युध्यमानाः अवसे यं हवन्ते, यः विश्वस्य प्रतिमानम् बभूव, यः अच्युतच्युत् जनासः ! सः इन्द्रः।
लोग। न = नहीं । शब्दार्थ-यस्मात् = जिसके । ऋते = बिना। जनासः = विजयन्ते = विजय प्राप्त करते हैं। युध्यमानाः = युद्ध करते हुए। अवसे = रक्षा के लिये। यम् = जिसको । हवन्ते = आह्वान करते हैं, बुलाते हैं। यः = जो। विश्वस्य = सबका, सम्पूर्ण जगत् का । प्रतिमानम् = प्रतिनिधि, मार्गप्रदर्शक, रक्षक। बभूव = है, हो गया हैं। यः = जो। अच्युतच्युत् = अचल को चल बना देने वाला, स्थिर को गतिमान् (चलायमान) कर देने वाला; अक्षयरहित को विनष्ट करने वाला। जनासः = हे मनुष्यों ! सः = वह। इन्द्रः = इन्द्र।

अनुवाद - जिसके बिना ( अर्थात् जिसकी सहायता के बिना) लोग विजय नहीं प्राप्त करते हैं; युद्ध करते हुए (लोग) रक्षा के लिए जिसको बुलाते हैं, जो सम्पूर्ण लोगों का प्रतिनिधि ( रक्षक, मार्ग-प्रदर्शक) है; जो अचल (पदार्थों) को चल बना देने वाला (अथवा जो स्थिर को भी अस्थिर कर देने वाला) है, है लोगो ! वह इन्द्र है।

व्याकरण-यस्मात् ऋते = ऋते के योग में पञ्चमी। जनासः = वैदिक रूप-जनाः, प्र०बहु० । विजयन्ते वि + √जि + लट्, प्र०पु०बहु० (आ० ) । युध्यमानाः = √युध् (श्यन्) + शानच् + प्र०बहु० । अवसे = √अव् + असेन् तुमर्थक वैदिक प्रत्यय)। हवन्ते = √हू या √ह्वे + लट्, प्र०पु०बहु० (आ०)। प्रतिमानम् = प्रति + मा + ल्युट् (अन) । बभूव = √भू + लिट्, प्र०पु० एकव० ।

विशेषण = वृत्रहा , सुशिप्र , सोमपा , शक्र , पुरन्दर , वज्री , वज्रहस्त , हरिकेश हरिश्मश्रु , हिरण्यबाहू , चित्रभानु , पुरूहूत , सप्तरश्मि , अपांनेता , वृषा , शचीपति , मरूत्वान् , गोत्रमिद , सोमी , आखण्डल , नर्य , सोमपातमः , धनञ्जय , मनस्वान , संवृक्समत्सु , अच्युतच्युत ।।


हमसे जुड़े

Translate

Featured Post