श्रीहित चौरासी जू पाठ Shri Hit Chaurasi ji path
श्री राधा-कृपाकटाक्ष स्तवराज स्तोत्रं
मुनीन्द्र-वृन्द वन्दिते त्रिलोक-शोक- हारिणि प्रसन्न वक्त्र-पङ्कजे निकुज्ज-भू-विलासिनि । व्रजेन्द्र - भानु- नन्दिनि व्रजेन्द्र- सूनु-संगते कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥1॥
अशोक - वृक्ष-वल्लरी - वितान- मण्डप स्थिते प्रवाल-बाल पल्लव-प्रभारूणांध्रि- कोमले । वराभय स्फुरत्- करे प्रभूत- सम्पदालये कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥2॥
अनङ्ग-रङ्ग-मंगल-प्रसङ्ग-भगुरभ्रुवोः सविभ्रमै ससम्भ्रमं दृगन्त- बाण - पातनैः । निरन्तरं वशीकृत प्रतीत - नन्दनन्दने कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥3॥
तडित- सुवर्ण-चम्पक- प्रदीप्त- गौर-विग्रहे मुख-प्रभा-परास्त-कोटि- शारदेन्दुमण्डले । विचित्र-चित्र-संचरच्चकोर - शाव- लोचने कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥4॥
मदोन्मदातियौवने प्रमोद मानमण्डिते प्रियानुराग- रञ्जिते कला-विलास पण्डिते । अनन्य-धन्य कुञ्ज राज्य-काम-केलि कोविदे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥5॥
अशेष- हाव-भाव - धीर हीर- हार भूषिते प्रभूतशातकुम्भ-कुम्भ- कुम्भि कुम्भ सुस्तनि । प्रशस्त- मन्द- हास्य- चूर्ण-पूर्ण सौख्य-सागरे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥6॥
मृणाल-बाल-वल्लरी-तरङ्ग-रङ्ग-दोलते लताग्र- लास्य- लोल-नील लोचनावलोकने । लल्ल लुलन् मिलन मनोज्ञ-मुग्ध-मोहनाश्रये कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥7॥
सुवर्ण मालिकाञ्चित - त्रिरेख - कम्बु- कण्ठग त्रिसूत्र - मङ्गलीगुण त्रिरत्न - दीप्त-दीधिते । सलोल-नीलकुन्तले-प्रसून- गुच्छ - गुम्फिते कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥8॥
नितम्ब - बिम्ब-लम्बमान- पुष्प- मेखला - गुणे प्रशस्त-रत्न-किङ्किणी-कलाप - मध्य-मञ्जुले । करीन्द्र-शुण्ड- दण्डिका- वरोह- सौभगोरुके कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥१॥
अनेक मन्त्र नाद - मञ्जु-नूपुरार वस्खलत्- समाज- राजहंस - वंश - निक्वणातिगौरवे । विलोल - हेमवल्लरी विडम्बि चारू चङ्क्रमे कदा करिष्यसीह माँ कृपाकटाक्षभाजनम् ॥10॥
अनन्त-कोटि-विष्णुलोक नम्र- पद्मजार्चिते हिमाद्रिजा पुलोमजा - विरिञ्चजा वरप्रदे । अपार-सिद्धि-वृद्धि-दिग्ध-सत्पदाङ्गुली- नखे कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥11॥
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेद - भारतीश्वरि प्रमाण - शासनेश्वरि । रमेश्वरि क्षमेश्वरि प्रमोद काननेश्वरि ब्रजेश्वरि ब्रजाधिपे श्रीराधिके नमोऽस्तुते ॥12॥
इतीदमद्भुतं स्तवं निशम्य भानुनन्दिनी करोतु संततं जनं कृपाकटाक्ष भाजनम् । भवेत्तदैव संचित-त्रिरूप-कर्म-नाशनं भवेत्तदा ब्रजेन्द्र- सूनु--मण्डल प्रवेशनम् ॥13॥
Shiv tandav stotra शिव ताण्डव स्तोत्र पाठ
जटा टवी गलज्-जल-प्रवाह-पावि- तस्थले गलेऽवलम्ब्य लम्बितां भुजङ्ग-तुङ्ग- मालिकाम् ।
डमड्-डमड्-डमड्-डमन्- निनाद वड्-डमर्वयं चकार चण्ड-ताण्डवं तनोतु नः शिवः शिवम् ॥१॥
जटा कटाह-सम्भ्रम-भ्रमन्- निलिम्प निर्झरी- विलोल - वीचिवल्लरी विराज- मान मूर्धनि ।
धगद् धगद् धगज्ज्वलल् ललाट पट्ट पावके किशोर-चन्द्र- शेखरे रतिः प्रतिक्षणं मम ।।२।।
धरा धरेन्द्र- नन्दिनी - विलास - बन्धु बन्धुर- स्फुरद्-दिगन्त सन्तति प्रमोद मान मानसे ।
कृपा-कटाक्ष-धोरणी - निरुद्ध- दुर्धरापदि क्वचिद्-दिगम्बरे मनो विनोदमेतु वस्तुनि ||३||
जटा भुजङ्गपिङ्गल-स्फुरत्-फणा मणि - प्रभा- कदम्ब कुङ्कुम द्रवप्रलिप्त दिग्वधू-मुखे ।
मदान्धसिन्धुरस्फुरत्-त्वगुत्तरीयमेदुरे मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ।।४।।
सहस्र लोचन-प्रभृत्य शेष - लेख - शेखर प्रसून धूलिधोरणी विधूसराङ्घ्रि- पीठभूः ।
भुजङ्ग-राज-मालया निबद्ध-जाट- जूटकः श्रियै चिराय जायतां चकोर-र-बन्धु- शेखरः।।५।।
ललाट चत्वरज्वलद्धनञ्जय- स्फुलिङ्गभा- निपीत पञ्चसायकं नमन्- निलिम्प-नायकम्।
सुधा मयूख - लेखया विराज - मान- शेखरं महा-कपालि सम्पदे शिरोजटालमस्तु नः ।।६।।
कराल भाल पट्टिकाधगद् धगद्-धगज्-ज्वलद्-धनञ्जयाहुती - कृत- प्रचण्ड-पञ्च- सायके ।
धरा धरेन्द्र- नन्दिनी - कुचाग्र-चित्र-पत्रक- प्रकल्प-नैक-शिल्पिनि त्रिलोचने रतिर्मम ||७।।
नवीन मेघ मण्डली निरुद्ध- दुर्धर- स्फुरत्- कुहू - निशीथिनीतमः प्रबन्ध-बद्ध-कन्धरः ।
निलिम्प निर्झरी-धरस् तनोतु कृत्ति-सिन्धुरःकला - निधान बन्धुरः श्रियं जगद्- धुरन्धरः ||८||
प्रफुल्ल-नील - पङ्कज-प्रपञ्च- कालिम प्रभा-वलम्बि-कण्ठ-कन्दली - रुचि-प्रबद्ध-कन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदान्ध - कच्छिदं तमन्त-कच्छिदंभजे ॥९॥
अखर्व सर्व मङ्गला-कला-कदम्ब मञ्जरी - रस-प्रवाह-माधुरी विजृम्भणा मधु- व्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं गजान्त-कान्ध-कान्तकं तमन्त-कान्तकंभजे ॥१०॥
जयत्-वदभ्र-विभ्रम-भ्रमद् भुजङ्ग मश्वस- द्विनिर्गमत् क्रम-स्फुरत्- कराल भाल- हव्य-वाट् ।
धिमिद्-धिमिद्-धिमिद्-ध्वनन्मृदङ्ग- तुङ्ग-मङ्गल- ध्वनि-क्रम- प्रवर्तित प्रचण्ड-ताण्डवः शिवः ।। ११ ।।
दृषद् - विचित्रतल्पयोर्भुजङ्गमौक्ति- कस्रजोर्- गरिष्ठ-रत्न- लोष्ठयोः सुहृद् - विपक्ष-पक्ष- योः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः सम-प्रवृत्ति कः कदा सदा शिवं भजाम्यहम् ।।१२।।
कदा निलिम्प निर्झरी- निकुञ्जकोटरे वसन् विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन्।
विलोल लोल लोचनो ललामभाल- लग्नकः शिवेति मन्त्र मुच्चरन् कदा सुखी भवाम्यहम्।।१३।।
इमं हि नित्य-मेव- मुक्त-मुत्त- मोत्तमं स्तवं पठन् स्मरन् ब्रुवन्-नरो विशुद्धि-मेति सन्ततम्।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम्।।१४।।
पूजा वसान समये दशवक्त्र गीतं यः शम्भु - पूजन परं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्र-तुरङ्ग-युक्तां लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ।। १५।।
अथ श्रीविष्णुसहस्त्रनामस्तोत्रम् Vishno Sahastra Stotram
卐 अथ श्रीविष्णुसहस्त्रनामस्तोत्रम् 卐
卐 यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ।।卐
卐 नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ।।卐
卐 वैशम्पायन उवाच 卐
卐 श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ १ ॥ 卐
युधिष्ठिर उवाच
卐 किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥ 卐
卐 को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३ ॥ 卐
卐 भीष्म उवाच 卐
卐 जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥ 卐
卐 तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च॥ ५ ॥ 卐
卐 अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६ ॥ 卐
卐 ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥ 卐
卐 एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥ 卐
卐 परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥ 卐
卐 पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥ 卐
卐 यतः सर्वाणि भूतानि ” भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥ 卐
卐 तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्त्रं मे शृणु पापभयापहम् ॥ १२ ॥ 卐
卐 यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥ 卐
卐 ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १४ ॥ 卐
卐 पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ १५ ॥ 卐
卐 योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥ १६ ॥ 卐
卐 सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ १७ ॥ 卐
卐 स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ १८ ॥ 卐
卐 अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ १९॥ ॥ 卐
卐 अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ २० ॥ 卐
卐 ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ २१ ॥ 卐
卐 ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ २२ ॥ 卐
卐 शर्म विश्वरेताः सुरेशः शरणं विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ २३ ॥ 卐
卐 अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ २४ ॥ 卐
卐 वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ २५ ॥ 卐
卐 रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ २६ ॥ 卐
卐 सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ २७ ॥ 卐
卐 लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ २८ ॥ 卐
卐 भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ २९ ॥ 卐
卐 उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ ३० ॥ 卐
卐 वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ ३१ ॥ 卐
卐 महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ ३२ ॥ 卐
卐 महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ ३३ ॥ 卐
卐 मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥३४ ॥ 卐
卐 अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ ३५ ॥ 卐
卐 गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ ३६ ॥ 卐
卐 अग्रणीर्ग्रामणीः श्रीमान्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ ३७ ॥ 卐
卐 आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ ३८ ॥ 卐
卐 सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नर्नारायणो नरः ॥ ३९ ॥ 卐
卐 असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥ ४० ॥ 卐
卐 वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ ४१ ॥ 卐
卐 सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ ४२ ॥ 卐
卐 ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ४३ ॥ 卐
卐 अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ४४॥ 卐
卐 भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ४५ ॥ 卐
卐 युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ४६ ॥ 卐
卐 इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ४७॥ 卐
卐 अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ४८ ॥ 卐
卐 स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ४९ ॥ 卐
卐 अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ५० ॥ 卐
卐 पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ५१ ॥ 卐
卐 अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ॥ ५२ ॥ 卐
卐 विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ५३ ॥ 卐
卐 उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ५४ ॥ 卐
卐 व्यवसायो व्यवस्थान: संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ५५ ॥ 卐
卐 रामो विरामो विरजो मार्गों नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ५६ ॥ 卐
卐 वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ५७ ॥ 卐
卐 ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ५८ ॥ 卐
卐 विस्तार: स्थावरस्थाणुः प्रमाणं बीजमव्ययम्। अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ५९ ॥ 卐
卐 अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ६० ॥ 卐
卐 यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ६१ ॥ 卐
卐 सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ६२ ॥ 卐
卐 स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ६३ ॥ 卐
卐 धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ ६४॥ 卐
卐 गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ६५ ॥ 卐
卐 उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ६६ ॥ 卐
卐 सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥ ६७॥ 卐
卐 जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ६८ ॥ 卐
卐 अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ६९ ॥ 卐
卐 महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ७० ॥ 卐
卐 महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ७१ ॥ 卐
卐 वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ७२ ॥ 卐
卐 भगवान् भगहानन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ७३ ॥ 卐
卐 सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ७४ ॥ 卐
卐 त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ७५ ॥ 卐
卐 शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशय: । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ७६ ॥ 卐
卐 अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ७७ ॥ 卐
卐 श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ७८ ॥ 卐
卐 स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ७९ ॥ 卐
卐 उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ८० ॥ 卐
卐 अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधन: । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ८१॥ 卐
卐 कालनेमिनिहा वीर: शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ८२ ॥ 卐
卐 कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥ ८३ ॥ 卐
卐 ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ८४ ॥ 卐
卐 महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ८५ ॥ 卐
卐 स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ८६ ॥ 卐
卐 मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ८७ ॥ 卐
卐 सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ८८ ॥ 卐
卐 भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ८९ ॥ 卐
卐 विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ९० ॥ 卐
卐* एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ९१ ॥ 卐
卐 सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ९२ ॥ 卐
卐 अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ९३ ॥ 卐
卐 तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ९४ ॥ 卐
卐 चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ९५ ॥ 卐
卐 समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गा दुरावासो दुरारिहा ।। ९६ ।। 卐
卐 शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ९७ ॥ 卐
卐 उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविजयी ॥ ९८ ॥ 卐
卐 सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ९९ ॥ 卐
卐 कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ १०० ॥ 卐
卐 सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्धनिषूदनः ॥ १०१ ॥ 卐
卐 सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ १०२ ॥ 卐
卐 अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ १०३ ॥ 卐
卐 भारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ १०४ ॥ 卐
卐 धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्तानियमोऽयमः ॥ १०५ ॥ 卐
卐 सत्त्ववान्सात्त्विकः सत्य: सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥ १०६ ॥ 卐
卐 विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ १०७॥ 卐
卐 अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ १०८ ॥ 卐
卐 सनात्सनातनतमः कपिलः कपिरप्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ १०९ ॥ 卐
卐 अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ११० ॥ 卐
卐 अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ १११ ॥ 卐
卐 * उत्तारणो दृष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ११२ ॥ 卐
卐 अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ ११३ ॥ 卐
卐 आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ ११५ ॥ 卐
卐 प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ ११६ ॥ 卐
卐 भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ ११७ ॥ 卐
卐 यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥ ११८ ॥ 卐
卐 आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ ११९॥ 卐
卐 शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १२० ॥ 卐
卐 अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ ११४॥ 卐
卐 ॥ सर्वप्रहरणायुध ॐ नम इति ॥ 卐
卐 इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्त्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १२१ ॥ 卐
卐 य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ १२२ ॥ 卐
卐 वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १२३ ॥ 卐
卐 धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम्॥१२४॥ 卐
卐 भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ १२५ ॥ 卐
卐 यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ १२६ ॥ 卐
卐 न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ १२७ ॥ 卐
Shri Govind damodar stotram श्री गोविन्द दामोदर स्तोत्रम्
नित्य प्रातः कालीन स्तुति
The document title is Shri Govind Damodar Stotram श्री गोविन्द दामोदर स्तोत्रम्. It is a formal text that focuses on the Shri Govind Damodar Stotram.
श्री गोविन्द दामोदर स्तोत्रम्
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ।।
श्री कृष्ण गोविन्द हरे मुरारे , हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।
विक्रेतु कामाखिलगोपकन्या मुरारिपादार्पित चित्तवृतिः ।
दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर मादवेति ।।
गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाप्ययोगम् ।
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ।।
सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदन्तिमर्त्याः ।
ते निश्चितं तन्मयमां व्रजन्ति गोविन्द दामोदर माधवेति ।।
जिह्वेसदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।
समस्त भक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ।।
सुखावसाने इद्मेव सारं दुःखावसाने इद्मेव ज्ञेयम् ।
देहावसाने इद्मेव जाप्यं गोविन्द दामोदर माधवेति ।। ७
जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि ।
आवर्णये त्वन्मधुराक्षराणि गोविन्द दामोदर माधवेति ।।
त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्तयां गोविन्द दामोदर माधवेति ।।
श्री कृष्ण राधावर – गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।
जिह्वे पिबस्वमृतमेतदेव गोविन्द दामोदर माधवेति ।।
Shivamahimna Stotram श्री शिवमहिम्नः स्तोत्रम्
।। शिवमहिम्नः स्तोत्रम् ।।
महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ।। १ ।।
अतीतः पन्थानं तव च महिमा वाङ्मनसयो रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधिगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ।। २ ।।
मधुस्फीता वाचः परममृतं निर्मितवत – स्तव ब्रह्म्न् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामात्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ।। ३ ।।
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ।। ४ ।।
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादन इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ।। ५ ।।
अजन्मानो लोकाः किमवयववन्तोऽपि जगता मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।। ६ ।।
त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रूचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।। ७ ।।
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति च भवद्भ्रूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ।। ८ ।।
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव स्तुवञ्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।। ९ ।।
तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चो हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरूगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।। १० ।।
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद् बाहूनभृत रणकण्डूपरवशान् ।
शिरःपद्माश्रेणीरचितचरणाम्भोरूहबलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।। ११ ।।
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।। १२ ।।
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितति त्वच्चरणयो र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ।। १३ ।।
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा- विधेयस्यासीद्यस्त्रिनयनविषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ १४ ॥
असिद्धार्था नैव क्वचिदपि सदेवासुरन निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥ १५ ॥
मही पादाघाताद् व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दो:स्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि- त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७ ॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८ ॥
हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ २० ॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता- मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२ ॥
स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत् पुरः प्लुष्ट दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना- दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३ ॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा- श्चिताभस्मालेपः स्त्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४॥
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५ ॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥२६॥
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् ॥ २७ ॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां- स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते ॥ २८ ॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥ २९॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३० ॥
कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं पारं न याति ॥ ३२ ॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले- ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३॥
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान् यः।
स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रों नास्ति तत्त्वं गुरोः परम् ।। ३५ ।।
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम् ।। ३६ ।।
कुसुमदशननामा सर्वगन्धर्वराजः शिशुशशिधरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः ।।३७ ।।
सुरवरमुनिपुज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघः पुष्पदन्तप्रणीतम् ।। ३८ ।।
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।। ३९ ।।
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ।। ४० ।।
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ।। ४१ ।।
एकाकालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ।। ४२ ।।
श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३ ॥
॥ इति शिवमहिम्नः स्तोत्रं सम्पूर्णम् ॥